________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा त्वस्याविनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति, बीजाभावात् । क्षीणसप्तकस्त्वप्रतिपतितपरिणामोऽवश्यं त्रिदशेषत्पद्यते । प्रतिपतितपरिणामस्तु नानापरिणामसम्भवाद् यथापरिणाममन्यतमस्यां गतावुत्पद्यते । उक्तं च
'बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिजा । तो मिच्छत्तोदयओ, चिणिज्ज भूओ न खीणम्मि ।। (विशेषा० गा० १३१६) तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे ।
उवरयपरिणामो पुण, पच्छा नाणामइगईओ ।। (विशेषा० गा० १३१७) बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहनीयक्षपणाय यत्नमारभते । उक्तं च
'बद्धाऊ पडिवन्नो, नियमा खीणम्मि सत्तए ठाइ । (विशेषा० गा० १३२५) इति ।
आह परः-ननु मिथ्यादर्शनादिक्षये किमसावदर्शनो जायते ? उत न ? इति, उच्यते-- सम्यग्दृष्टिरेवासी । आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ? उच्यते--निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं तत्परिक्षये च तत्त्वश्रद्धानलक्षगपरिणामाप्रतिपातात्, प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवद् विशुद्धतरापत्तेः । यदाह भाष्यसुधाम्भोनिधिः
खीणम्मि दंसणतिए, कि होइ तओ तिदंसणाईओ? । भन्नइ सम्मद्दिट्ठी, सम्मत्तखए कओ सम्मं १ ॥ निव्वलियमयणकुद्दवरूवं मिच्छत्तमेव सम्मत्तं । खीणं न उ जो भावो, सद्दहणालक्खणो तस्स ॥ सो तस्स विसुद्धयरो, जायइ सम्मत्तपुग्गलक्खयओ । दिट्ठि व्व सण्हसुद्धब्भपडलविगमे मणूसस्स ॥
१ बद्धायुः प्रतिपन्नः प्रथमकषायक्षये यदि म्रियेत । तदा मिथ्यात्वोदयतश्रिनुयाद् भूयो न क्षीणे ।। तस्मिन् मृतो याति दिवं तत्परिणामश्च सप्तके क्षीणे। उपरतपरिणामः पुनः पश्चान्नानामतिगतीः ।।
यः प्रतिपन्नो नियमात क्षीणे सप्तके तिष्ठति ॥३क्षीणे दर्शनत्रिके किं भवति स त्रिदर्शनातीतः?। मण्यते, सम्यग्दृष्टिः, सम्यक्त्वक्षये कुतः सम्यक्त्वम् ? ॥ निर्मदनीकृतमदनकोद्रवरूपं मिथ्यात्वमेव सम्यक्त्वम् । क्षीणं न तु यो मावः श्रद्धानलक्षणस्तस्य ॥ स तस्य विशुद्धतरो जायते सम्यक्त्वपुद्गलक्षयतः । दृष्टिरिव 'श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ यथा शुद्धजलानुगतं दुग्धं शुद्धं जलक्षये सुतराम् । सम्यक्त्वशद्धपुद्गलपरिक्षये दर्शनमेवम् ।। तस्मिंश्च तृतीये चतुर्थे मवे सियात क्षायिकसम्यक्त्वे । सुरनारकयुग्मिषु गतिरिदं तु जिनकालीननराणां ।।