________________
९८-९९ ]
उवसमसेटिं पडिवज्जइ तस्स खवगसेढी हुज्जा इति ।
एष कार्मग्रन्थिकाभिप्रायः । सिद्धान्ताभिप्रायेण त्वेकस्मिन् भवे एकामेव श्र ेणि प्रतिपद्यते । उक्तं च कल्पाध्ययने
शतकनामा पञ्चमः कर्मग्रन्थः ।
१५५
"एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नयरसेढिवज्जं, एगभवेणं च सव्वाई || ( बृहत्कल्पभा० गा० १०७)
सर्वाणि सम्यक्त्व- देशविरत्यादीनि । अन्यत्राप्युक्तम्-मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः
1
यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ इति ॥ ६८ ॥ तदेवमभिहिता सप्रपञ्चमुपशमश्र णिः । सम्प्रति क्षपक े णिमभिधित्सुराह-अण मिच्छ मीस सम्मं, तिआउइगविगलधोणतिगुजोयं । तिरिनरयथावरदुगं, साहारायवअडनपुत्थी ॥ ९९ ॥
इह क्षपक णिप्रतिपत्ता मनुष्यो वर्षाष्टकस्योपरि वर्तमानोऽविरतादीनामन्यतमोऽत्यन्तविशुद्धपरिणाम उत्तमसंहननः । तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगता एवेति । प्रतिपत्तिक्रमवायम् - अविरतो देशविरतः प्रमत्तसंयतोऽप्रमत्तसंयतो वा प्रथममन्तमुहूर्तेन " अण'' त्ति अनन्तानुबन्धिनः क्रोध- मान-माया लोभान् युगपत् क्षपयति । तदनन्ततमभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति । यथा ह्यतिसम्भृतो दावानलः खल्वर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहति एवमसावपि क्षपकस्तीत्रशुभ परिणामत्वात् सावशेषमन्यत्र प्रक्षिप्य क्षपयतीति । एवं पुनः “मीस" त्ति सम्यग्मिथ्यात्वं क्षपयति, ततोऽनेनैव क्रमेण सम्यक्त्वं क्षपयति । सम्यक्त्वस्य च चरमस्थितिखण्डे उत्कीर्णे सति असौ क्षपकः कृतकरण इत्युच्यते । अस्यां च कृतकरणाद्धायां वर्तमानः कचित् कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि च पूर्वं शुक्ललेश्यायामासीत्, सम्प्रत्यन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु भवति । उक्तं च
9
Rugaगो उ मस्सो, निट्टवगो चउसु वि गईसु ॥
इह यदि बद्धायुः क्षपकश्रेणिमारभतेऽनन्तानुबन्धिनां च क्षयादनन्तरं मरणसम्भवतो व्युपरमति, ततः कदाचिद् मिथ्यात्वोदयाद् भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्या
१ एवमपरिपतिते सम्यक्त्वे देवमनुजजन्मनोः । अन्यतरश्रेणिवर्जमेकभवेन च सर्वाणि (प्रतिपद्यते ) । २ प्रस्थापकस्तु मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु ॥