SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १५४ ] . देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा न च तत् कर्म उपशान्तं सद् 'उत्कर्षयति' उद्वर्तनाकरणेन स्थिति-रसाभ्यां वृद्धि नयति, निधत्ति-निकाच'नयोस्तु प्रागपूर्वकरणकाल एव निवृत्तत्वाद् नेहोपशान्तत्वेन तनिषेधः क्रियते इति । आह--संयतस्यानन्तानुवन्धिनामुदयो निषिद्धस्तत् कथमुपशमः ? इति उच्यते--स ह्यनुभागकर्माङ्गीकृत्य न तु प्रदेशकर्मेति । तथा चाभ्यधायि परमगुरुणा... जीवे णं भंते ! सयंकडं कम्मं वेएइ ? गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं न वेएइ । से केणढणं पुच्छा, गोयमा ! दुविहे कम्मे पन्नते, तं जहा-पएसकम्मे य अणुभागकम्मे य । तत्थ णं जं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएई" इत्यादि । . ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह--यद्येवं संयतस्यानन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति ? इत्युच्यते-प्रदेशकर्मणो मन्दानुभावत्वात् । तथा कस्यचिदनुभागकर्मानुभावोऽपि नात्यन्तमपकाराय भवन उपलभ्यते, यथा सम्पूर्णमत्यादिचतुर्ज्ञानिनस्तदावरणोदय इति । ततः सूक्ष्मलोभचरमकिट्टयु पशमे संज्वलनलोभ उपशान्तो भवति, तत्समयमेव च ज्ञानावरणपश्चक-दर्शनावरणचतुष्का-ऽन्तरायपश्चक-यशःकीर्ति-उच्चैोत्राणां बन्धव्यवच्छेदः, ततोऽनन्तरसमयेऽसावुपशान्तकषायो भवति, स च जघन्येनैकं समयमात्रमुत्कर्षण त्वन्तमुहूर्त कालं यावत् , तत ऊर्ध्व नियमादसौ प्रतिपतति । प्रतिपातश्च द्विधा--भवक्षयेण अद्धाक्षयेण च । तत्र भव क्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् । अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्ध-उदय-उदीरणा व्यवच्छिन्नास्तत्र तत्र पतता सता ते आरभ्यन्त इति यावत् । प्रतिपतंश्च तावत् प्रतिपतति यावत् प्रमत्तसंयतगुणस्थानकम् । कश्चित् पुनस्ततोऽप्यधस्तनं गुणस्थानकद्वयं याति, कोऽपि सास्वादनभावमपि । यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति शेषः । उत्कर्षतश्चैकस्मिन् भवे द्वौ वारावुपशमश्रेणि प्रतिपद्यते । यथ द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकण्यभावः । यः पुनरेकं वारं प्रतिपद्यते तस्य क्षपकणिर्भवेदपि । उक्तं च सप्ततिकाचूर्णी-- प्रतिकाचणी-- .. . - जो दुवारे उवसमसेढिं पडिवज्जइ तस्स नियमा तम्मि भवे खवगसेढी नत्यि । जो इक्कसि १ सं०१-२०म० छ० ०नाया ॥२ जीवो भदन्त ! स्वयंकृतं कर्म वेदयति ? गौतम ! अस्त्येककं वेदयति अस्त्येककं न वेदयति । अथ केनार्थेन ? पृच्छा, गौतम ! द्विविधं कर्म प्रज्ञप्तम् , तद्यथा-प्रदेशकर्म चानुभागकर्म च । तत्र यत् प्रदेशकर्म तद् नियमाद् वेदयति, तत्र यदनुभागकर्म तदस्त्येककं वेदयति, अम्त्येककं न वेदयति ॥ ३ मुद्रि० क्षियो भवक्षयेण म्रियः ॥ ४ यो द्वौ वारौ उपशमश्रेणिं प्रतिपद्यते तस्य नियमात् तस्मिन् भवे क्षपकणिर्नास्ति । यः सकृदेवोपशमश्रेणि प्रतिपद्यते तस्य क्षपकश्रेणिः भवेत् ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy