________________
शतकनामा पञ्चमः कर्मग्रन्थः ।
संज्व० लोभ
अप्र० लोम प्र० लोभ
संज्ञ० माया
अप्र० माया प्र० माया
संज्व० मान
अप्र० मान प्र० मान
संज्व० क्रोध
अप्र० क्रोध प्र० क्रोध
पुरुषवेद
हास्य रति अरति शोक भय
जुगु
सा
स्त्रीवेद
नपुंसक वेद
मिध्या. मोह मिश्रमोह० सम्य. मोह
अनं० क्रोध अनं मान अनं० माया अनं० लोभ
१५३
ननु संज्वलनादीनां युक्त उपशमः, अनन्तानुबन्धिनां तु दर्शनप्राप्तावेवोपशमितत्वाद् न युज्यते, न, दर्शनप्रतिपत्तौ तेषां क्षयोपशमादिह चोपशमादित्य विरोध इति । आह-क्षयोपशम-उपशमयोः कः प्रतिविशेषः १ उच्यते--क्षयोपशमो ह्युदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति । यदाह
भाष्य पीयूषपाथोधि:--
"वेएइ संत कम्मं, खओवसमिएत्थ नाणुभावं सो । उवसंतकसाओ पुण, वेइ न संतकम्मं पि ।। ( विशेषा० गा० १२६३ )
अन्यत्राप्युक्तम्-
उवसंतं कम्मं जं, न तओ कड्ढेइ न देइ उदए वि । न य गमयइ परपगईं, न चैव उक्कड्डए तं तु ।।
66
"
अस्या अक्षरगमनिका — सर्वोपशमेन यदुपशान्तं मोहनीयं कर्म, अन्यस्य सर्वोपशमायोगात्, “२ सव्वोवसमो मोहस्स चेव" इति वचनात् 'न तदपकर्षति' न तदपवर्तन करणेन स्थिति- रसाभ्यां हीनं करोतीत्यर्थः । अपि शब्दस्य भिन्नक्रमत्वाद् नाप्युदये तद् ददाति नापि तद् वेदयतीत्यर्थः उपलक्षणात् तदविनाभाविन्यामुदीरणायामपि न ददाती - त्यपिं मन्तव्यम् । न च बध्यमानसजातीयरूपां परप्रकृति सङ्क्रमकरणेन 'गमयति' सङ्क्रमयति ।
१ वेदयति सत्कर्म क्षायोपशमिकोऽत्र नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥ २ सर्वोपशमो मोहस्य चैव ।। ३ एतद्वाक्यं कर्मप्रकृत्याः ३१५ तमगाथया संवादि ॥
24