SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ [ गाथा देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः ख्यानावर णकोधावुपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधोदय- उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति । ततोऽन्तमुहूर्तमात्रेणाऽप्रत्याख्यानावरणा प्रत्याख्यानावरणमानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धउदय-उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति । ततो युगपदन्तमुहूर्तमात्रेणाऽप्रत्याख्यानावरण-प्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमायाया .बन्ध-उदय-उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन संज्वलनमायामुपशमयति । ततो युगपदप्रत्याख्यानावरण-प्रत्याख्यानावरणलोभावुपशमयति, तत्समयमेव संज्वलनलोभस्य बन्ध-उदय-उदीरणाव्यवच्छेदः, ततः संज्वलनलोभमुपशमयंत्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागं सङ्खये यखण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशम. यति, पुनः सङ्खये यानां खण्डानां किट्टीत्यपरपर्यायाणां चरमखण्डमसङ्खये यानि खण्डानि सूक्ष्मकिट्टीत्यपरपर्यायाणि करोति, ततः समये समये एकैकं खण्डमुपशमयतीति । इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावद् लोभस्यासङ्खये - यान्तिमचरमखण्डमिति । प्ररूपिता मोहनीयस्याष्टाविंशतिभेदभिन्नस्याप्युपशमना । सम्प्रति गाथार्थो विवियतेइहोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव । अन्ये तु प्रतिपादयन्ति-अविरत-देशविरतप्रमत्ताऽप्रमत्तसंयतानामन्यतम इति । श्रेणिपरिसमाप्तौ चाविरत-देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतमो भवति । स च प्रथमं युगपत् “अण" त्ति अनन्तानुबन्धिनः क्रोध मान-मायालोभानुपशमयति । ततो दर्शनं दर्शस्तं दर्श-मिथ्यात्व-सम्यग्मिथ्यात्व-सम्यग्दर्शनं युगपदुपशमयति । ततोऽनुदीर्णमपि नपुसकवेदम् । यदि पुरुषः प्रारम्भकस्ततः प्रथमं नपुसकदेदम्, ततः पश्चात स्त्रीवेदम् , ततः 'षट्क' हास्य-रति-अरति-शोक-भय-जुगुप्सालक्षणम् , ततः पुरुषवेदम् , अथ स्त्री प्रारम्भिका ततः प्रथमं नपुसकवेदम् , ततः पुरुषवेदम् , ततः पटकम् , ततः स्त्रीवेदमितिः अथ नपुंसक एव प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः षट्कम् , ततो नपुंसकवेदमिति । पुनश्च द्वौ द्वौ क्रोधाद्यौ 'एकान्तरितो' संज्वलनविशेषक्रोधाद्यन्तरितो 'सदृशौ, तुल्यावुपशमयति । अयमर्थः-अप्रत्याख्यानावरणप्रत्याख्यानावरणक्रोधो सदृशौ क्रोधत्वेन युगपद् उपशमयति, ततः संज्वलनक्रोधमेकाकिनम् , ततोऽप्रत्याख्यानावरण-प्रत्याख्यानावरणमानो युग दुपशमयति, ततः संज्वलनमानम ततोऽप्रत्याख्यानावरण-प्रत्याख्यानावरणमाये युगपदुपशमयति, ततः संज्वलनमायाम् , ततोऽप्रत्याख्यानावरणप्रत्याख्यावरणलोभौ युगपतिशमयति, ततः संज्वलनलोभमिति । स्थापना चेयम १ सं. १-२ त० म० छा० ०णक्रोधौ तदु०॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy