________________
१५१
शतकनामा पञ्चमः कर्मप्रन्थः ।
सम्प्रति वेदकसम्यग्दृष्टे त्रयाणामपि दर्शनमोहनीयानामुपशमनाविधिरुच्यते - इह वेदकसम्यग्दृष्टिः संयमे वर्तमानः सन् अन्तर्मुहूर्तमात्रेण कालेन दर्शनत्रितयमुपशमयति, उपशमयतश्च करणत्रिकादिविधिर्यथा कर्मप्रकृतिटीकायां तथा वेदितव्यः ।
१८]
एवमुपशान्तदर्शन मोहनीयत्रिकश्चारित्र मोहनीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि श्रीणि करणानि करोति । करणानां च स्वरूपं प्राग्वत् । केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम्, अपूर्वकरण म पूर्वकरण गुणस्थानके, अनिवृत्तिकरणमनिवृत्तिवादरसम्परायगुणस्थानके । अत्रापि स्थितिघातादयः पूर्ववदेव प्रवर्तन्ते । नवरमिह सर्वासामशुभप्रकृतीनामबध्यमानानां गुणसङ्क्रमः प्रवर्तते इति वक्तव्यम् । अपूर्वकरणाद्धायाश्च सङ्घङ्ख्ये यतमे भागे गते सति निद्रा - प्रचलयोबन्धव्यवच्छेदः । ततः प्रभूतेषु स्थितिखण्डसहस्ररेषु गतेषु सत्सु अपूर्वकरणाद्धायाः सङ्ख्ये या भागा गता भवन्ति एकोऽवशिष्यते । अत्र चान्तरे देवगति - देवानुपूर्वी - पञ्चेन्द्रियजाति-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गा-ऽऽहारकशरीरा--ऽऽहारकाङ्गोपाङ्ग-तैजसकार्मण-समचतुरस्र-वर्णचतुष्का-ऽगुरुलघु-- उपघात- पराघात - उच्छ्वास त्रस बादर-पर्याप्त-प्रत्येकप्रशस्तविहायोगति-स्थिर-शुभ-सुभग-सुस्वराऽऽदेय-निर्माण- तीर्थकरसंज्ञितानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः । ततः स्थितिखण्डपृथक्त्वे गते सति अपूर्वकरणाद्वायाश्चरमसमये हास्य-रतिभय-जुगुप्सानां बन्धव्यवच्छेदः, हास्य-रति-अरति शोक-भय-जुगुप्सानामुदयव्यवच्छेदः, सर्व - कर्मणां देशोपशमना-निधत्ति-निकाचनाकरणव्यवच्छेदश्च । ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, तत्रापि स्थितिघातादीनि पूर्ववत् करोति । ततोऽनिवृत्तिकरणाद्वायाः सङ्ख्ययेषु भागेषु गतेषु सत्सु दर्शन सप्तशेषाणामेकविंशतिमोहनीयप्रकृतीनामन्तरकरणं करोति । तत्र चतुर्णां संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेद्यमानस्य वेदस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा, शेषाणां त्वेकादशकपायाणामष्टानां च नोकपायाणामावलिकामा - त्रम् | स्वोदयकालप्रमाणं च चतुर्णां संज्वलनानां त्रयाणां च वेदानामिदम् - स्त्री वेद- नपुसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने च परस्परं तुल्यः, ततः पुरुषवेदस्य सङ्खये यगुणः, ततः संज्वलनक्रोधस्य विशेषाधिकः, ततः संज्वलनमानस्य विशेषाधिकः, ततः संज्वलनमायाया विशेपाधिकः, ततः संज्वलन लोभस्य विशेषाधिकः । इहानिवृत्तिकरणे बहु वक्तव्यं तत्तु ग्रन्थगौरवभयाद् नोच्यते, केवलं विशेषार्थिना कर्मप्रकृतिटीका निरीक्षितव्या । अन्तरकरणं च कृत्वा ततो नपुंसकवेदमन्तमुहूर्तमात्रेणोपशमयति, ततोऽन्तर्मुहूर्तमात्रेण स्त्रीवेदम्, ततोऽन्तर्मुहूर्तमात्रेण हास्यादिषट्कम्, तस्मिंश्चोपशान्ते तस्मिन्नेव समये पुरुषवेदस्य बन्ध-उदय- उदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन पुरुषवेदमुपशमयति । ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानावरण- प्रत्या