________________
१४८ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपैतः ।
[गाथा ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषामपि सर्वेषामप्येकरूपमेवाध्यवसायस्थानम् , द्वितीयसमयेऽपि ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषामपि सर्वेषामेकरूपमध्यवसायस्थानम् , नवरं प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणम् , एवं तावद् वाच्यं यावदनिवृत्तिकरणचरमसमयः । अत एवास्मिन् करणे प्रविष्टानां तुल्यकालानामसुमतां सम्बन्धिनामध्यवसायस्थानानां परस्परं निवृत्तिः व्यावृत्तिर्न विद्यत इत्यनिवृतिकरणमिति नाम । अस्मिश्वानिवृत्तिकरणे यावन्तः समयास्तावन्त्यध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धानि। एतानि च मुक्तावलीसंस्थानेन स्थापयितव्यानि-.....। अत्रापि च प्रथमसमयादेवारभ्य पूर्वोक्ताः पञ्च पदार्था युगपत् प्रवर्तन्ते । अनिवृत्तिकरणाद्धायाश्च सङ्घय येषु भागेषु गतेषु सत्सु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तमुहूर्तप्रमाणमन्तरकरणमभिनवस्थितिबन्धाद्धासमेनान्तमुहूर्तप्रमाणेन कालेन करोति, अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं परप्रकृतिषु बध्यमानासु प्रक्षिपति, प्रथमस्थितिगतं च दलिकमावलिकामानं वेद्यमानासु परप्रकृतिषु स्तिबुकसङ्क्रमेण सङ्क्रमयति । अन्तरकरणे कृते सति द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिगतं दलिकमुपशमयितुमारभते । तद्यथा-प्रथमसमये स्तोकमुपशमयति, द्वितीयसमयेऽसङ्ख्य यगुणम् , तृतीयसमयेऽसङ्खथे यगुणम् , एवं यावदन्तमुहूर्त कालम् । एतावता च कालेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम-यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्य अभिषिच्य द्रघणादिभिनिष्कुट्टितो निःस्पन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिच्य परिषिच्य अनिवृत्तिकरणरूपद्रघणनिष्कुट्टितः सङ्क्रमण-उदय-उदीरणा-निधत्ति-निकाचनकरणानामयोग्यो भवति । तदेवमेकेषामाचार्याणां मतेनानन्तानुबन्धिनामुपशमनाऽभिहिता ।
अन्ये त्याचक्षते-अनन्तानुबन्धिनामुपशमना न भवति, किन्तु विसंयोजनैव । विसंयोजना-क्षपणा । सा चैवम्-इह श्रेणिमप्रतिपद्यमाना अपि अविरता विरताश्चतुर्गतिका अपि । तद्यथा-नारका देवा अविरतसम्यग्दृष्टयः, तियश्चोऽविरतसम्यग्दृष्टयो देशविरता वा, मनुजा अविरतसम्यग्दृष्टयो देशविरताः सर्वविरता वा अनन्तानुवन्धिनां विसंयोजनार्थ यथाप्रवृत्त्यादीनि त्रीणि करणानि कुर्वन्ति । करणवक्तव्यता सर्वाऽपि प्राग्वत् । नवरमिहानिवृतिकरणे प्रविष्टः सन् अन्तरकरणं न करोति । उक्तं च कर्मप्रकृती
चउगइया पज्जत्ता, तिन्नि वि संजोयणे विजोयंति ।
करणेहिं तीहिं सहिया, नंतरकरणं उवसमो वा ।। (गा० ३४३) अस्या अक्षरगमनिका-'चतुर्गतिकाः, नारक-तिर्यङ्-मनुष्य-देवाः सर्वाभिः पर्याप्तिभिः पर्याप्ताः 'त्रयोऽपि' अविरत-देशविरत सर्वविरताः । तत्राविरतसम्यग्दृष्टयश्चतुर्गतिकाः, देशविरता