________________
१८ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
[ १४७
भागाद् उत्कृष्टतः प्रभूतसागरोपमशतपृथक्त्वमात्रं जघन्यतः पल्योपमसङ्ख्ये यभागमात्रं स्थितिखण्डं खण्डयति, तद्दलिकं चाधस्ताद् याः स्थितीर्न खण्डयिष्यति तत्र प्रक्षिपति, अन्तर्मुहूर्तेन च कालेन तत् स्थितिखण्डमुत्कीर्यते खण्डयत इत्यर्थः; ततः पुनरप्यधस्तात् पल्योपमसङ्ख्ये यभागमात्रं स्थितिखण्डमन्तमुहूर्तेन कालेनोत्किरति पूर्वोक्तप्रकारेणैव च निक्षिपति, एवम पूर्व करणाद्धायां प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति तथा च सति अपूर्वकरणस्य प्रथमसमये यत् स्थितिसत्कर्म आसीत् तत् तस्यैव चरमसमये सङ्ख्ये यगुणहीनं जातम् ।
रसघातो नाम-अशुभप्रकृतीनां यदनुभाग सत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेनाशेषानपि विनाशयति, ततः पुनरपि तस्य प्राङ्मुक्तस्यानन्ततमभागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति, एवमनेकान्यनुभागखण्ड सहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति तेषां च स्थितिखण्डानां सहस्ररपूर्वकरणं परिसमाप्यते ।
गुणश्रेणिर्नाम - अन्तर्मुहूर्त प्रमाणानां स्थितीनामुपरि याः स्थितयो वर्तन्ते तन्मध्याद् दलिकं गृहीत्वा उदयावलिकाया उपरितनीषु स्थितिषु प्रतिसमयमसङ्ख्ये यगुणतया निक्षिपति, तद्यथाप्रथमसमये स्तोकम्, द्वितीयसमयेऽसङ्ख्ये यगुणम्, तृतीयसमयेऽसङ्ख्यं यगुणम्, एवं तावद् नेयं यावदन्तर्मुहूर्त चरमसमयःः तच्चान्तमुहूर्तमपूर्व करणा-ऽनिवृत्तिकरणकालाभ्यां मनागतिरिक्तं वेदितव्यम् । एष प्रथमसमयगृहीतदलिकस्य निक्षेपविधिः । एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपो वक्तव्यः । अन्यच्च - गुणश्रेणिरचनाय प्रथमसमये यद् दलिकं गृह्यते तत् स्तोकम्, ततोऽपि द्वितीयसमयेऽसङ्ख्ये ययगुणम्, ततोऽपि तृतीयसमयेऽसङ्ख्ये यगुणम्, एवं तावद् नेयं यावद् गुणश्रेणिकरण चरमसमयः । अपूर्वकरणसमयेषु अनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु गुणश्र णिदलिकनिक्षेपः शेषे शेषे भवति उपरि च न वर्धत इति ।
तथा गुणसङ्क्रमो नाम - अपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्ध्यादीनामशुभप्रकृतीनां यद् दलिकं पर प्रकृतिषु सङ्क्रमयति तत् स्तोकम्, ततो द्वितीयसमये परप्रकृतिपु सङ्क्रम्यमाणमसङ्ख्यगुणम्, ततोऽपि तृतीयसमयेऽसङ्ख्ये यगुणम्, एवं तावद् वक्तव्यं यावच्चरमसमयः ।
तथाऽन्यः स्थितिबन्धो नाम - अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः स्तोकः स्थितिबन्ध आरभ्यते । स्थितिबन्ध-स्थितिघातौ युगपदारभ्येते युगपदेव च निष्ठां यातः । एवमेते पञ्च पदार्था पूर्वकरणे प्रवर्तन्ते ।
व्याख्यातम पूर्वकरणम्, इदानीमनिवृत्तिकरणमुच्यते-- अनिवृत्तिकरणं नाम - यत्र प्रविष्टानां सर्वेषामपि तुल्यकालानामेकमेवाध्यवसायस्थानम् । तथाहि - अनिवृत्तिकरणस्य प्रथमसमये