________________
९८] शतकनामा पञ्चमः कर्मग्रन्थः ।
१४९ स्तियश्चो मनुष्या वा, सर्वविरता मनुष्या एव । 'संयोजनान्' अनन्तानुबन्धिनः 'विसंयोजयन्ति' विनाशयन्ति । किंविशिष्टाः सन्तः ? इत्याह-'करणेत्रिभिः' यथाप्रवृत्ता-ऽपूर्वकरणा-निवृत्तिबादरैः सहिताः । नवरमिहान्तरकरणं न वक्तव्यम् , उपशमो वा, उपशमश्चानन्तानुबन्धिनां न भवतीत्यर्थः ।।
किन्तु कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासक्रमेणाधस्तादावलिकामानं मुक्त्वा उपरि निरवशेषाननन्तानुबन्धिनो विनाशयति, आवलिकामानं तु स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृतिषु सङ्क्रमयति ।
तदेवमुक्ताऽनन्तानुबन्धिना विसंयोजना। सम्प्रति दर्शनत्रिकस्योपशमना भण्यते-तत्र मिथ्यात्वस्योपशमना मिथ्यादृष्टेवेदकसम्यग्दृष्टश्च, सम्यक्त्व-सम्यग्मिथ्यात्वयोस्तु वेदकसम्यग्दृष्टेरेव । तत्र मिथ्यादृष्टेमिथ्यात्वोपशमना प्रथमं सम्यक्त्वमुत्पादयतः, सा चैवम्-पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्तः करणकालात् पूर्वमप्यन्तमुहूर्त कालं प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धया प्रवर्धमानोऽभव्यसिद्धिकविशुद्धयपेक्षयाऽनन्तगुणविशुद्धिको मति-श्रुताज्ञान-विभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे उपयुक्तोऽन्यतमस्मिन योगे वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुक्ललेश्यायां वर्तमानो मिथ्यादृष्टिश्चतुगतिकोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्मा इत्यादि पूर्वोक्तं तावद् वाच्यं यावद् यथाप्रवृत्तिकरणमपूर्वकरणं च परिपूर्ण भवति । नवरमिहापूर्वकरणे गुणसङ्क्रमो न वक्तव्यः, किन्तु स्थितिघातरसंघात-स्थितिबन्ध-गुणश्रेणय एव वक्तव्याः । गुणश्रेणिदलिकरचनाऽप्युदयसमयादारभ्य वेदितव्या। ततोऽनिवृत्तिकरणेऽप्येवं वक्तव्यम् । अनिवृत्तिकरणाद्धायाश्च सङ्ख्यं येषु भागेषु गतेषु सत्सु एकस्मिन् सङ्खये यतमे भागेऽवतिष्ठमानेऽन्तमुहूर्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तमुहूर्तप्रमाणं प्रथमस्थितेः किश्चित् समधिकंन्युनं वाऽभिनवस्थितिबन्धाद्धासमेनान्तमुहूर्तेन कालेन करोति । अन्तरकरणसत्कं च दलिकमुत्कीर्य प्रथमस्थितो द्वितीयस्थितौ च प्रक्षिपति । प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण यत् प्रथमस्थितिगतं दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणा, यत् पुनर्द्वितीयस्थितेः सकाशाद् उदीरणाप्रयोगेणैव दलिकं समाकृष्य उदये प्रक्षिपति सा उदीरणाऽपि पूर्वसूरिभिर्विशेषप्रतिपत्यर्थमागाल इत्युच्यते । उदय-उदीरणाभ्यां च प्रथमस्थितिमनुभवन् तावद् गतो यावदावलिकाद्विकं शेष तिष्ठति, तस्मिश्च स्थिते आगालो व्यवच्छिद्यते । तत उदीरणेव केवला प्रवर्तते, साऽपि तावद् यावदावलिकाशेषो न भवति । आवलिकायां तु शेषीभृतायासुदीरणाऽपि निवर्तते, ततः केवलेनैवोदयेनावलिकामात्रमनुभवति । आवलिकामात्रचरमसमये च द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति । तद्यथा-सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति । उक्तं च कर्मप्रकृतिचूर्णी