________________
१४४ देवेन्द्रसूरिविरचितः स्वोपनटीकोपेतः
[ गाथा दुपरिष्टाद् रज्जु(ज्ज्व)सङ्खथे यभागविस्तरं सातिरेकसप्तरज्जूच्छ्यं गृहीत्वा त्सनाडिकाया एवोत्तरदिग्भागे विपरीतं योज्यते, उपरितनं भागमधः कृत्वाऽधस्तनं चोपरि विधाय सङ्घात्यते इत्यर्थः; एवं च कृतेऽधस्तनं लोकस्या) सातिरेकसप्तरज्जूच्छ्रितं किञ्चिदूनरज्जुचतुष्टयविस्तीर्ण बाहल्यतोऽप्यधः क्वचिद् देशोनसप्तरज्जुमानमन्यत्र पुनरनियतबाहल्यं जायते ।
इदानीमुपरितनलोकाधं संवय॑ते-तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तरे उपर्यलोकसमीपेऽधस्तु रत्नप्रभाक्षुल्लकातरसमीपेऽगुलसहस्रभागविस्तरवती देशोनसार्धत्रयरज्जूच्छ्रिते बुद्ध्या गृहीत्वा त्सनाडिकाया एवोत्तरपार्श्वे पूर्वोदितस्वरूपेणैव वैपरीत्येन सङ्घात्येते, एवं च कृते उपरितनं लोकस्याधं द्वाभ्यामगुलसहस्रभागाभ्यामधिकरज्जुत्रविष्कम्भम् , इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशियौताभ्यां द्वाभ्यामप्येक एवाङगुलसहस्रभाग एकदिग्वर्तित्वादेवापराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्वयाधिकत्वमुक्तम् , देशोनसप्तरज्जूच्छितम् , बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतबाहल्यम् , इदं च सर्व गृहीत्वा आधस्त्यसंवर्तितलोकार्धस्योत्तरपार्वे, सङ्घात्यते । एवं च योजिते आधस्त्यखण्डस्योच्छ्ये यद् इतरोच्छ्याधिकं तत् खण्डयित्वोपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संयोज्यते, एवं च सातिरेकाः पञ्च रजवः क्वचिद् बाहल्यं सिध्यति । तथा आधस्त्यखण्डमधस्ताद यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम् , अत उपरितनखण्डवाहल्याद् देशोनरज्जुद्वयमत्राधस्त्यखण्डेऽतिरिच्यते इत्यस्मादतिरिच्यमानबाहल्याधं देशोनरज्जुरूपं गहीत्वोपरितनखण्डबाहल्ये सङ्घात्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतत् चतुरस्रीकृतनभःखण्ड कियत्यपि प्रदेशे रज्ज्वसङ्खथे यभागाधिकाः षड् रज्जवो भवन्ति, व्यवहारतस्तु सर्व सप्तरज्जुबाहल्यमिदमुच्यते । व्यवहारनयो हि किञ्चिनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं वाहल्यादिवर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः । अत एतन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या । आयामविष्कम्भाभ्यां तु प्रत्येक देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्तु तत्रापि सप्तरज्जुप्रमाणता द्रष्टव्या । तदेवं लोको व्यवहारनयमतेन अनायाम-विष्कम्भ-वाहल्यैः प्रत्येकं सप्तरज्जप्रमाणो घनो भवतीति समुदायार्थः । एतच्च वैशाखसंस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं लोकं संस्थाप्य सर्व भावनीयमिति ।
प्ररूपितो धनः । सम्प्रति श्रेणिनिरूपणायाह--"तदीहेगपएसा सेढि' त्ति स एव घनी१ मुद्रि० छा० व्योजिताभ्यां द्वा०॥