________________
१४३
९६-१७ ]
शतकनामा पञ्चमः कर्मग्रन्थः । ष्ठति, अपरेषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण तृतीयमनुभागस्थानकमुत्तिष्ठतीत्येवं सर्वेष्वषि कषायकर्मस्कन्धेष्वसङ्ख्य यलोकाकाशप्रदेशप्रमाणान्यनुभागस्थानानि भवन्ति । ज्ञानावरणादिसमस्तकर्मस्कन्धेष्वप्येतावन्त्येवामूनि भवन्ति, परं तावदिह कषाया एव कारणत्वेन विचारयितु प्रक्रान्ताः, तत्र च जघन्यान्यनुभागस्थानान्युत्कृष्टतश्चतुरः समयान् यावदुदये समागच्छन्ति, मध्यमानि तु कानिचिद् द्वौ समयौ कानिचित् त्रीन् समयान् अपराणि चतुरः समयान अन्यानि पञ्च समयान् अन्यानि षट् समयान् अपराणि सप्त समयान् अन्यान्यष्टौ समयान् यावदुत्कृष्टत उदये समागच्छन्ति, उत्कृष्टानुभागस्थानान्युत्कृष्टतो द्वौ समयौ यावदुदये समागच्छन्ति, ततः परं सर्वत्रान्यत् परावर्तते । जघन्यतस्तु सर्वाण्यपि समयस्थितीन्येव भवन्ति, अतस्तज्जन्यो जघन्य मध्यम-उत्कृष्टभेदभिन्नोऽध्यवसायोऽप्येतावत्कालग्थितिक एव भवति. तेन च जघन्यादिभेदेनाध्यवसायवैचित्र्येण वध्यमानकर्मानुभागो जघन्यादिभेदविचित्रो जन्यते, अतः कषायानुभागजनिताध्यवसायवैचित्र्यनिर्वय॑त्वात् कर्मणामनुभागः कषायप्रत्ययः सिद्धः । मिथ्यात्वा-ऽविरतिकारणद्वयाभावेऽपि कषायसद्भावेऽपि प्रमत्तादिषु स्थित्यनुभागबन्धौ भवतः, कषायाभावे तूपशान्तमोहादिषु न भवत इतीहाप्यन्वय-व्यतिरेकाभ्यां ज्ञायते कषाया एव स्थिति अनुभागबन्धयोः । प्रधानं कारणमिति ॥६६॥
'योगस्थानानि श्रेणेरसङ्खथ यभागे भवन्ति' इति यदुक्तं तत्र श्रेणिस्वरूपं प्रतिपिपादयिषुः, सा च घनीकृतलोकस्वरूपप्ररूपणापूर्विकैव च वक्तु शक्यतेऽतः प्रसङ्गतो घनस्वरूपमन्यत्र बहुस्थानोपयोगित्वात् प्रतरस्वरूपं च प्रचिकटयिषुराह
'चउदसरज्जू लोओ, बुद्धिकओ होइ सत्तरज्जुघणो ।
तद्दीहेगपएसा, सेढी पयरो य तव्वग्गो ॥९७ ।।
चतुर्दश रज्जवो यस्य स चतुर्दशरज्जुः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद् दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् , उच्छ्यमानमिदमस्य, अधस्ताद् देशोनसप्तरज्जुबिस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तरः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपरि तु लोकान्ते एकरज्जुविस्तृतः, शेषस्थानेषु पुनः कोऽपि कियानस्य विस्तर इति । तदेवंरूपो लोकः 'बुद्धिकृतः' मतिपरिकल्पनया विहितः ‘भवति' सम्पद्यते । किंरूपो भवति ? इत्याह-सप्त रज्जवः प्रमाणतया यस्य स सप्तरज्जुः, स चासौ घनश्च-समचतुरस्त्र-आयामविष्कम्भवाहल्यैस्तुल्यत्वात् सप्तरज्जुधनः । स चेत्थं बुद्धया विधीयते-इह रज्जुविस्तीर्णायास्त्रसनाड्या दक्षिणदिग्वत्यधोलोकखण्डमधो देशोनरज्जुत्रयविस्तृतं क्रमेण हीयमानविस्तरं तावद् याव
१ सटीकेयं गाथा सार्धशतकप्रकरणस्य ११४ तमी गाथा-तट्टीकासमाना।