________________
000000000, 00000000 10000000
देवेन्द्रसूरिविरचितः स्वोपज्ञटोकोफ्तः
[गाथा प्रमाणान्यान्तमौहूर्तिकान्यध्यवसायस्थानानि जनयन्ति, समयाधिकतज्जघन्यस्थितिजनकानि तु त एव तेभ्यस्तानि विशेषाधिकानि जनयन्ति, द्विसमयाधिकतज्जघन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति, त्रिसमयाधिकतजघन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति, एवं समयोत्तरवृद्धतज्जघन्यस्थितिजनकानि विशेपाधिकानि तावद् वाच्यानि यावत् त एव कषायाः समयोनोत्कृष्टज्ञानावरणादिस्थितिजनकाध्यवसायस्थानेभ्यः सर्वोत्कृष्टतत्स्थितिजनकाध्यवसायस्थानानि विशेषाधिकानि निर्वर्तयन्ति । एतानि सर्वाण्यपि मिलितान्यसङ्घय यलोकाकाशप्रदेशप्रमाणान्येव भवन्ति, स्थाप्यमानानि च विषमचतुरस्र क्षेत्रमास्तृणन्ति । स्थापना चेयम्-98888888तदेवमेतैः कषायजनिताध्यवसायेर्जन्यत्वात् कर्मणः स्थितिः कषायप्रत्यया 88888% सिद्धा । तथा तेषामेव कषायाणां सम्बन्धि यद्दलिकमुदयप्राप्तं तत्र यदनुभागस्थानकमदेति तेन जीवस्य योऽध्यवसायो जन्यते, तद्वशेन बध्यमानकर्मणामनुभागो निष्पद्यते । तथाहि-इह तावदनन्तैः परमाणुमिनिष्पन्नान् स्कन्धान जीवः कमतया गहमाति, तन चैकैकस्वन्धे यः सर्वजघन्यरसः परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् भागान् प्रयच्छति, अपरस्तु तानप्येकाधिकान , अन्यस्तु तानपि द्वयधिकान , अपरस्तु तानपि व्यधिकानित्यादिवृद्ध्या तावद् नेयं यावदन्त्य उत्कृष्टरसः परमाणुमौलगशेग्नन्तगुणानपि रसभागान प्रयच्छति । अत्र च जघन्यरसा ये केचन परमाणवस्तेषु सर्वजीवानन्तगुणरसभागयुक्तेष्वप्यसत्कल्पनया शतं रसांशानां परिकल्प्यते, एतेषां च समुदायः समानजातीयत्वाद् एका वर्गणेत्यभिधीयते, अन्येषां त्वेकोत्तरशतरसभागयुक्तानामरणूनां समुदायो द्वितीया वर्गणा, अपरेषां द्वय त्तरशतरसभागयुक्तानामरणूनों समुदायस्तृतीया वर्गणा, अपरेपां तु व्युत्तरशतरसभागयुक्तानामणूनां समुदायश्चतुर्थी वर्गणा, एवमनया दिशा एकेककरसभागवृद्धानामरणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणा वाच्याः। एतासां चेतावनीनां वगणानां समुदायः स्पर्धकमित्युच्यते, स्पर्धन्त इवात्रोत्तरोत्तररसवृद्धया परमाणुवर्गणा इति कृत्वा । एताश्चानन्तरोक्तानन्तकप्रमाणा अप्यस
कल्पनया षट् स्थाप्यन्ते -- १०४इदमेकं स्पर्धकम् । इत ऊर्ध्वमेकोत्तरया निरन्तरवृद्धया वृद्धो रसो न लभ्यते, किं तर्हि ? सर्वः १०३जीवानन्तगुणैरेव रसभागद्धो लभ्यत इति। तेनैव क्रमेण
द्वितीयं स्पर्धकमारभ्यते, ततस्तथैव तृतीयमित्यादि यावदनन्तान्यनुभागस्पर्धकान्युत्तिष्ठन्ति । एषां चानुभागस्पर्धकानां सिद्धानन्तभागवर्तिनामभव्येभ्योऽनन्तगुणानां समुदायः प्रथममनुभागस्थानक भवति, अन्येषु त्वधिकरसेषु स्कन्थेषु तेनैव क्रमेण द्वितीयं तावत्प्रमाणमेवानुभागस्थानकमुत्ति