________________
९५-९६ ] शतकनामा पञ्चमः कर्मग्रन्थः।
१४१ " तथा "तओ रसच्छेय" त्ति 'ततः' तेभ्यः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणा भवन्ति । तथाहि--इह क्षीर-निम्बरसाद्यधिश्रयणैरिवानुभागबन्धाध्यवसायस्थानस्तण्डुलेष्विव कर्मपुद्गलेषु रसो जन्यते, स चैकस्यापि परमाणोः सम्बन्धी केवलिप्रज्ञया निछद्यमानः सर्वजीवानन्तगुणानविभागपलिच्छेदान प्रयच्छति, यस्माद् भागादतिसूक्ष्मतयाऽन्यो भागो नोत्तिष्ठति सोऽविभागपलिच्छेद उच्यते, एवंभूताश्चानुभागस्याविभागपलिच्छेदा रसपर्यायाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्वजीवानन्तगुणाः सम्प्राप्यन्ते । उक्तं च
'गहणसमयम्मि जीवो, उप्पाएइ उ गुणे सपञ्चयओ।
सव्वजियाणंतगुणे, कम्मपएसेसु सव्वेसु ।। ( कर्मप्र० गा० २६) गुणशब्देनेहाविभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् ।
कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्तन्तेऽतः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणाः सिद्धा भवन्तीति । .. ___अत्राह-ननूक्तो भवद्भिः सप्रपञ्च प्रदेशबन्धः, परं कस्माद् हेतोरमु जीवः करोति ? इति वक्तव्यमिति प्रश्नमाशङ्कय प्रदेशबन्धस्य प्रसङ्गतः पूर्वोक्तानां प्रकृति-स्थिति-अनुभागबन्धानां च हेतून निरूपयन्नाह--"जोगापयडिपएसं, ठिइअणुभागं कसायाउ" त्ति योगो वीर्य शक्तिरुत्साहः पराक्रम इति पर्यायाः, तस्माद् योगात प्रकरणं प्रकृतिः-कर्मणां ज्ञानावरणादिस्वभावः, प्रकृष्टाः पुद्गलास्तिकायदेशाः प्रदेशा:-कर्मवर्गणान्तःपातिनः कर्मस्कन्धाः, प्रकृतयश्च प्रदेशाच प्रकृतिप्रदेशम् समाहारो द्वन्द्वः, तद्. जीवः करोतीति शेषः, प्रकृति-प्रदेशबन्धयोोगो हेतुरित्यर्थः । एतदुक्तं भवति-यद्यपि षडशीतिकशास्त्रे मिथ्यात्वा-ऽविरति-कषाय-योगाः सामान्येन कर्मणो बन्धहेतव उक्तास्तथाप्याद्यकारणत्रयाभावेऽप्युपशान्तमोहादिगुणस्थानकेषु केवलयोगसद्भावे वेदनीयलक्षणा प्रकृतिस्तत्प्रदेशाश्च बध्यन्ते, अयोग्यवस्थायां तु योगाभावे न बध्यन्ते इत्यन्वयव्यतिरेकाभ्यां ज्ञायते प्रकृति-प्रदेशबन्धयोर्योग एव प्रधानं कारणम् । तथा “ ठिइअणुभागं कसायाउ" त्ति स्थानं-स्थितिः, कर्मणोऽन्तमुहूर्तादिकं सप्ततिसागरोपमकोटीकोटीपर्यन्तमवस्थानमित्यर्थः, अनु-पश्चाद् बन्धोत्तरकालं भजन--स्थितेः सेवनमनुभवनं यस्यासावनुभागो रस इत्यर्थः, स्थितिश्चानुभागश्च स्थित्यनुभागम् , समाहारो द्वन्द्वः, तद् जीवः करोतीति शेषः । कस्मात् ? इत्याह--'कषायात्' कपायवशात् । इयमत्र भावना---कपायाः--क्रोध-मान-माया-लोभाः, तजनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते, कपाया हयुदीर्णा नानाजीवानां कालभेदेनैकजीवस्य वा सर्वजघन्याया अपि ज्ञानावरणादिकर्मस्थितेनिवर्तकान्यसङ्खये यलोकाकाशप्रदेश__ १ ग्रहणसमये जीव उत्पादयति तु गुणान् स्वप्रत्ययतः । सर्वजीवानन्तगुणान् कर्मप्रदेशेषु सर्वेषु ।।