________________
१४०
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा कारणभूतानि अध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि । तानि स्थितिमेदेभ्योऽसङ्कये यगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसङ्खये यलोकाकाशप्रदेशप्रमाणैरध्यवसायस्थानजन्यते, उत्तरेषु तु स्थितिविशेषास्तैरेव यथोत्तरं विशेषवृद्धैर्जन्यन्ते, अतः स्थितिभेदेभ्यः स्थितिबन्धाध्यवसायस्थानान्यसङ्ख्यातगुणानि सिद्धानि भवन्ति ।
तथा "अणुभागट्ठाण' ति “पदैकदेशे पदसमुदायोपचाराद्' 'अनुभागस्थानानि' अनुभागबन्धाध्यवसायस्थानानि । तत्रानु-पश्चाद् बन्धोत्तरकालं भज्यते-सेव्यतेऽनुभूयते इत्यनुभागः -रसस्तस्य बन्धोऽनुभागबन्धः, अध्यवसानानि अध्यवसायाः, ते चेह कपायजनिता जीवपरिणामविशेषाः, तिष्ठन्ति जीवा एष्विति स्थानानिः अध्यवसाया एव स्थानानि अध्यवसायस्थानानि, अनुभागवन्धस्य कारणभूताति अध्यवसायस्थानानि अनुभागबन्धाध्यवसायस्थानानि । स्थितिबन्धाध्यवसायस्थानेभ्यस्तान्यसङ्घय यगुणानि भवन्ति । स्थितिबन्धाध्यवसायस्थानं हय कैकमन्तमुहूर्तप्रमाणमुक्तम् , अनुभागबन्धाध्यवसायस्थानं त्वेकैकं जघन्यतः सामयिकम् उत्कृष्टतस्त्वटसामयिकान्तमेवोक्तम् , अत एकस्मिन्नपि नगरकल्पे स्थितिबन्धाध्यवसायस्थाने तदन्तर्गतानि नगरान्तर्गतोच्चैर्नीचैगृहकल्पानि नानाजीवान् कालभेदेनैकं जीवं वा समाश्रित्य असङ्ख्य यलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाध्यवसायस्थानानि भवन्ति । तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसायस्थानानां मध्ये यदाद्यं सर्वलघुस्थितिकं बन्धाध्यवसायस्थानं तस्मिन्नपि देश-क्षेत्र काल-भाव--जीवभेदेनासङ्खये यलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाध्यवसायस्थानानि प्राप्यन्ते, द्वितीयादिषु तु तान्यप्यधिकान्यधिकतराणि च प्राप्यन्त इति सर्वेष्वपि स्थितिबन्धाध्यवसायस्थानेषु भावना कार्या, अतः स्थितिबन्धाध्यवसायस्थानेभ्योऽनुभागबन्धाध्यवसायस्थानान्यसङ्खये यगुणानीति ।। ६५ ॥
तत्तो कम्मपएसा, अणंतगुणिया तो रसच्छेया ।
जोगा पयडिपएस, ठिइअणुभागं कसायाओ ।। ६६ ।। 'ततः' तेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः 'कर्मप्रदेशाः कर्मस्कन्धा अनन्तगुणिता भवन्ति । अयमत्र तात्पर्यार्थः-प्रत्येकमभव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिनिप्पन्नानभव्यानन्तगुणानेव स्कन्धान मिथ्यात्वादिभिर्हेतुभिः प्रतिसमयंजीवो गृह्णातीत्युक्तम् । अनुभागबन्धाध्यवसायस्थानानि तु सर्वाण्यप्यसङ्खये यलोकाकाशप्रदेशप्रमाणान्येवाभिहितानि, अतोऽनुभागवन्धाध्यवसायस्थानेभ्यः कर्मप्रदेशा अनन्तगुणाः सिद्धा भवन्ति ।
१ सं० १-२ त० म० छा० ०त्तरे तु स्थिति० ॥