________________
१४५
६७-६८]
शतकनामा पञ्चमः कर्मग्रन्थः । कृतलोकः सप्तरज्जुप्रमाणो दीर्घ देयं यस्याः सा तदीर्घा, एकप्रदेशेति वीप्साप्रधानत्वाद् निर्देशस्यैकैकाकाशप्रदेशा शूचिः श्रेणिरित्युच्यते । एतेन च यत्र कुत्राप्यविशेषितायाः श्रेणेः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी इयमेव सप्तरज्जुप्रमाणा एकप्रादेशिकीश्रेणिया ।
अधुना प्रतरं प्ररूपयितुमाह--'प्रतरश्च' प्रतरः पुनः कः ? इत्याह--'तद्वर्गः' तस्याःशूचिस्वरूपायाः श्रेणेवर्गः-शूच्या शूचिगुणनलक्षणस्तद्वर्गः । कोऽर्थः १ शूच्या शूचेगुणनं प्रतर उच्यते। तद्यथा--इहासङ्घय ययोजनकोटीकोटीदीर्घाऽपि श्रेणिरसत्कल्पनया त्रिप्रदेशप्रमाणा द्रष्ट
व्याः तस्याश्च तयैव गुणने प्रतरो नवप्रदेशात्मको भवति । स्थापना-००० इति ॥१७॥
निरूपितः सप्रपञ्च प्रदेशबन्धस्तत्स्वामी च । तन्निरूपणे च समर्थिता “नमिय जिणं धुवबंधोदयसत्ताघाइपुन्नपरियत्ता । सेयर चउह विवागा, बुच्छं बंधविह सामी य ॥” इति आद्यद्वारगाथा । अधुना च-शब्दसूचितामुपशमश्रेणि क्षपकश्रणिं च व्याचिख्यासुः प्रथमं तावदुप. शमश्रेणिं प्रकटयन्नाह----
'अण दंस नपुसित्यी, वेय च्छक्कं च पुरिसवेयं च ।
दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥ ९८ ।।
तत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽभिधीयते--अविरतसम्यग्दृष्टि -देशविरत--प्रमत्ताऽप्रमत्तानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः-पद्म शुक्ललेश्यानामन्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽन्तःसागरोपमकोटीकोटीस्थितिसत्कर्माकरणकालात् पूर्वमप्यन्तमुहूर्त कालं यावदवदायमानचित्तसन्ततिरवतिष्ठते । तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृतीः शुभा एव बध्नाति, नाशुभाः; अशुभानां च प्रकृतीनामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, शुभानां च द्विस्थानकं सन्तं चतुःस्थान-(ग्रन्थाग्रम् -४०००)कम्; स्थितिबन्धेऽपि च पूर्णे पूर्णे सति अन्य स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासङ्घय यभागहीनं करोति । इत्थं करणकालात् पूर्वभन्तमुहूर्त कालं यावदवस्थाय ततो यथाक्रमं त्रीणि करणानि प्रत्येकमान्तौहूर्तिकानि करोति । तद्यथा----यथाप्रवृत्तकरणम् अपूर्वकरणम् अनिवृत्तिकरणं चतुर्थी तूपशान्ताद्धा । तत्र यथाप्रवृत्तिकरणे प्रविशन् प्रतिसमयमनन्तगुणवृद्धया विशुद्धया प्रविशति, पूर्वोक्तं च शुभप्रकृतिबन्धा
१ गाथेयं आवश्यकनियुक्तौ ११६ तमा। अस्या गाथायाष्टीका तु सप्ततिकाप्रकरणस्य " पढमकसाय व उक्' इत्यस्या गाथायाष्टीकासमा ।।
19