________________
१४-१५] शतकनामा पञ्चमः कर्मग्रन्थः ।
१३७ भागा अविभागपलिच्छेदा इति चानान्तरम् । ततः सर्वस्तोकाविभागपलिच्छेदकलितानां लोकासङ्ख्य यभागवर्त्य सङ्ख्यं यप्रतरप्रदेशराशिसङ्ख्यानां जीवप्रदेशानां समानवीर्यपलिच्छेदतया जघन्यैका वर्गणा, तत एकेन योगपलिच्छेदेनाधिकानां तावतामेव जीवप्रदेशानां द्वितीयवर्गणा, एवमेकैकयोगपलिच्छेदवृद्धया वर्धमानानां जीवप्रदेशानां समानजातीयरूपा घनीकृतलोकाकाशश्रेणेरसङ्खये यभागप्रदेशराशिप्रमाणा वर्गणा वाच्याः। एताश्चैतावत्योऽप्यसत्कल्पनया षट् स्थाप्यन्ते । 1२४-४- तत्र जघन्यवर्गणायां जीवप्रदेशा असङ्खये यवीर्यभागान्विता अप्यसन्कल्पनया दश१३ भागान्विताः स्थाप्यन्ते । ते च' जीवप्रदेशा एकैकस्यां वर्गणायामसङ्ख्थे यप्रतरप्रदे२२ १२ १२ शमाना अप्यसत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते । एताश्चैतावत्यः समुदिता एकं वीर्य1-1-13 स्पर्धकमित्युच्यते । अथ स्पर्धक इति कः शब्दार्थः ? उच्यते-एकैकोत्तरवीर्यभागवृद्धया परस्परं स्पर्धन्ते वर्गणा यत्र तत् स्पर्धकम् । तत ऊर्चमेकेन द्वयादिभिर्वा वीर्यपलिच्छेदैरधिका जीवप्रदेशा न प्राप्यन्ते, किं तर्हि ? प्रथमस्पर्धकचरमवर्गणायां जीवप्रदेशेषु यावन्तो वीर्यपलिच्छेदास्तेभ्योऽसङ्खये यलोकाकाशप्रदेशप्रमाणैरेव वीर्यपलिच्छेदैरधिका जीवप्रदेशा लभ्यन्ते, अतस्तेषामपि समानवीर्यभागानां समुदायो द्वितीयस्पर्धकस्याद्यवर्गणा । तत एकेन वीर्यभागेनाधिकानां समुदायो द्वितीया वर्गणा, एवमेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसङ्खये यभागवर्तिप्रदेशराशिमाना वाच्याः । एतासामपि समुदायो द्वितीयं स्पर्धकम् । इत ऊचं पुनरप्येकोत्तरवृद्धिर्न लभ्यते, किं तर्हि ? असङ्खये यलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाःप्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयस्पर्धकमारभ्यते, पुनस्तेनैव क्रमेण चतुर्थम् , पुनः पश्चममित्येवमेतान्यपि वीर्यस्पर्धकानि श्रेण्यसङ्खये यभागवर्तिप्रदेशराशिप्रमाणानि वाच्यानि । एषां चैतावतां स्पर्धकानां समुदाय एकं योगस्थानकमुच्यते । इदं तावदेकस्य सूक्ष्मनिगोदस्य भवाद्यसमये सर्वजघन्यवीयस्य योगस्थानकमभिहितम् । तदन्यस्य तु किश्चिदधिकवीयस्य जन्तोरनेनेव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठते, तदन्यस्य तु तेनैव क्रमेण तृतीयम् , तदन्यस्य तु तेनैव क्रमेण चतुर्थमित्यमुना क्रमेणैतान्यपि योगस्थानानि नानाजीवानां काल भेदेन एकजीवस्य वा श्रगेरसङ्घय यभागवत्तिनमःमदेशराशिप्रमाणानि भवन्ति ।
_ ननु जीवानामनन्तत्वात् तभेदाद् योगस्थानान्यनन्तानि कस्माद् न भवन्ति ? नैतदेवम् , यत एकै कस्मिन सदृशे योगस्थानेऽनन्ताः स्थावरजीवा वर्तन्ते, प्रसास्त्वेककस्मिन सदृशे योगस्थानेऽसङ्ख्याता वर्तन्ते, तेषां च तदेककमेव विवक्षितम् , अतो विसदृशानि यथोक्तमानान्येव योगस्थानकानि भवन्ति । तथाऽपर्याप्ताः सर्वेऽप्येकैस्मिन् योगस्थानके एकसमयमेवावतिष्ठन्ते,
१ सं० १.२-छा० त० म. च प्रदे० ॥
Jon