________________
१३६
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
काले उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्टप्रदेशबन्धं करोति, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेशबन्धं करोति, पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टा ऽनुत्कृष्टप्रदेशबन्धयोः संसरतां जन्तूनां मोहस्योत्कृष्टाऽनुत्कृष्टप्रदेशबन्धौ द्वावपि सादि अध्रुवौ भवतः । जघन्या -ऽजघन्यौ त्वेतत्प्रदेशबन्धौ यथा सूक्ष्मनिगोदादिषु संसरतामसुमतां कर्मषट्कस्यानन्तरमेव भावितौ तथाऽत्रापि निर्विशेष भावनीयौ | आयुष्कस्य त्वध्रुववन्धित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि सादिअध्रुव एव भवतीति ॥ ९४॥
गाथा
निरूपितः प्रदेशबन्ध : साद्यादिप्ररूपणतः । सम्प्रति प्रागुक्तचतुर्विधबन्धे योगस्थानानि कारणं प्रकृतयः प्रदेशाश्च तत्कार्यं प्रवर्तन्ते, तथा स्थितिबन्धाध्यवसायस्थानानि कारणं स्थितिविशेषास्तु तत्कार्यम्, अनुभागवन्धाध्यवसायस्थानानि कारणम् अनुभागस्थानानि तु तत्कार्य वर्तन्ते इति कृत्वा सप्तानामप्येषां पदार्थानां परस्परमल्पबहुत्वमभिधित्सुराह—
सेढिअसंखिज्जं से, जोगट्ठाणाणि पर्याडि ठिङ्गभेया । ठिइबंधज्झवसायाणुभागठाणा असंखगुणा ॥ ९५ ॥
योगः - वीर्यं तस्य स्थानानि वीर्याविभागांशसङ्घातरूपाणि । कियन्ति पुनस्तानि भवन्ति ? इत्याह- "सेटिअसंखिज्जं से" त्ति श्रेणे : असङ्ख्ये यांशः श्रेण्यसङ्ख्ये यांशः । एतदुक्तं भवति - श्रेणेर्वक्ष्यमाणरूपाया असङ्ख्य यभागे यावन्त आकाशप्रदेशा भवन्ति तावन्ति योगस्थानानि, एतानि चोत्तरपदापेक्षया सर्व स्तोकानीति शेषः । तत्र ययैतानि योगस्थानानि भवन्ति तथोच्यते - इह किल सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः केचिदल्पवीर्ययुक्ताः केचित्तु बहुबहुतर - बहुतमवीर्योपेताः । तत्र सर्वजघन्यवीर्ययुक्तस्यापि प्रदेशस्य सम्बन्धि वीर्यं केवलिप्रज्ञाच्छेदेन च्छिद्यमानमसङ्ख्यं यलोकाकाशप्रदेशप्रमाणान् भागान् प्रयच्छति, तस्यैवोत्कृष्टवीर्ययुक्ते प्रदेशे यद् वीर्यं तदेतेभ्योऽसङ्ख्यं यगुणान् भागान् प्रयच्छति । उक्तं च
1
'पन्नाए छिज्जंता, असंखलोगाण जत्तिय पएसा । तत्तिय वीरियभागा, जीवपएसम्म एक्केक्के H सव्वज हनगविरिए, जीवपएसम्म एत्तिया संखा | तत्तो असंखगुणिया, बहुविरिए जियपएसम्मि
11
(शत० बृ० भा० गा० ६६८-६९)
१ प्रज्ञया च्छिद्यमाना असङ्ख्यलोकानां यावन्तः प्रदेशाः । तावन्तो वीर्यभागा जीवप्रदेशे एकैकस्मिन् ।। सर्वजघन्यकवीर्ये जीवप्रदेशे यावती सङ्ख्या । ततोऽसङ्खयगुणिता बहुवीर्ये जीवप्रदेशे ।। २ सं० १-२-०म० छा० मुद्रि० तत्ति ॥