________________
१४ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
१३५ ___ भाविता उत्तरप्रकृतीराश्रित्योत्कृष्टा-ऽनुत्कृष्ट-जघन्या-ऽजघन्यप्रदेशबन्धेषु साद्यादिविकल्पाः । सम्प्रति मूलप्रकृतीः प्रतीत्य उत्कृष्टप्रदेशबन्धादिभङ्गेषु साद्यादिभङ्गकानभिधित्सुराह-'मूलछगेऽणुकोसो चउह" त्ति 'मूलपट्के' मूलप्रकृतिषट्के--ज्ञानावरण- दर्शनावरण-वेदनीय-नाम-गोत्राऽन्तरायलक्षणेऽनुन्कृष्टः प्रदेशबन्धः 'चतुर्धा' सादि-अनादि ध्रुवा-ऽध्रुवलक्षणश्चतुःप्रकारो भवति । तथाहिं-प्रस्तुतकर्मषट्ककिषयःक्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते । सूक्ष्मसम्परायो हि मोहनीया-ऽऽयुःकर्मद्वयं न बध्नाति, किन्त्वेतदेव प्रस्तुतषट्कं बध्नाति, अतो मोहनीया-ऽऽयुर्भागयोरत्रैव कर्मषट्के प्रवेशाद् बहुद्रव्यमिह लभ्यत इति सूक्ष्मसम्परायग्रहणम् । उत्कृष्टश्च प्रदेशबन्ध उक्तनीत्या उत्कृष्टेनैव योगेन भवतीत्युत्कृष्टयोगग्रहणम् । उत्कृष्टयोगावस्थानकालश्चैतावानेव भवतीत्येक-द्विसमयग्रहणम् । एनं चोत्कृष्टं प्रदेशबन्धं कृत्वा उपशान्तमोहावस्थां चारुह्य पुनः प्रतिपत्य उत्कृष्टयोगाद्वाऽत्रेव प्रतिपत्य यदा' पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः, एतच्च स्थानमप्राप्तपूर्वाणामनादिः सदा-निरन्तरं बध्यमानत्वात् , ध्रुवोऽभव्यानाम् , अध्रुवो भव्यानामिति ।।
___ उक्तः षण्णां मूलपकृतीनामनुत्कृष्टप्रदेशबन्धश्चतुर्विकल्पः । शेषवन्धत्रिके साद्यादिभङ्गकानाह– “दुहा सेसि सव्वत्थ" त्ति 'शेषे' भणितोद्धरिते जघन्या-ऽजघन्य-उत्कृष्टप्रदेशबन्धलक्षणे त्रिके 'द्विधा' सादि-अध्रुवलक्षणो द्विप्रकारो बन्धो भवति। तत्रानुत्कृष्टभणनप्रसङ्गेनोत्कृष्टः सूक्ष्मसम्परायेऽनन्तरं दर्शितः, स च तत्प्रथमतया बध्यमानत्वात् सादिः, उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने चावश्यं न भवतीत्यधूवः । जघन्यः पुनरमीषां षण्णां कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधवन्धकस्य सूक्ष्मनिगोदस्य भवाधसमये लभ्यते । जघन्यप्रदेशबन्धो हि जघन्ययोगेन भवतीत्युक्तम् , स चास्यैव यथोक्तविशेषणविशिष्टस्य लभ्यते । द्वितीयादिसमयेषु त्वसावसङ्ख्येयगुणवृद्धेन वीर्यण वर्धत इति भवाद्यसमयग्रहणम् । द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनः सङ्ख्यातेनासङ्ख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यप्रदेशबन्धं करोति, पुनरजघन्यमित्येवं जघन्याऽजघन्ययोः प्रदेशबन्धयोः संसरतामसुमतां द्वावप्येतौ सादि-अध्रुवौ भवत इति ।।
भाविता मूलप्रकृतिषट्कस्योत्कृष्टादिबन्धविकल्पाः साद्यादिभङ्गकैः । अथावशिष्टयोर्मोहाऽऽयुपोरुत्कृष्टादिप्रदेशबन्धान् साद्यादिविकल्पतः प्ररूपयन्नाह-'दुहा सेसि सव्वत्थ" 'शेपे' भणितोद्धरिते मोहे आयुषि च सर्वत्रोत्कृष्टेऽनुत्कृष्टे जघन्येऽजघन्ये च प्रदेशबन्धे 'द्विधा' सादि-अध्रुवलक्षणो द्विविकल्पो बन्धो भवति । तत्र मिथ्यादृष्टिः सम्यग्दृष्टिोऽनिवृत्तिबादरान्तः सप्तविधवन्धः
१ सं-१-२ त० म० °दा अनु ।