________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
सावसङ्घये गुणवृद्धेन वीर्येण वर्धत इति भवाद्यसमयग्रहणम् । द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनः सङ्ख्यातेनासङ्ख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यं प्रदेश-बन्धं करोति, पुनरजघन्यमित्येवं जघन्या -ऽजघन्ययोः प्रदेशबन्धयोः संसरतामसुमतां द्वावप्येतौ सादि - अभ्रुवौ भवतः ।
इति भावितस्त्रिशत उत्तरप्रकृतीनामनुत्कृष्ट प्रदेशबन्धचतुर्द्धा, उत्कृष्ट- जघन्या-ऽजघन्यप्रदेशबन्धश्च द्विधा । शेषे का वार्ता ? इत्याह - "दुहा सेसि सव्वत्थ "त्ति पदं भूयोऽप्यनुवर्त्यते, 'शेषे' भणितत्रिंशत्प्रकृत्यवशिष्टे स्त्यानद्धिंत्रिक-मिथ्यात्वा ऽनन्तानुबन्धिचतुष्टय-वर्णादिचतुष्क-तैजसकार्मणा गुरुलघु-उपघात निर्माणलक्षणे सप्तदशध्रुवप्रकृतिकदम्बके औदारिक- वैक्रिया ऽऽहारकशरीरत्रया- ऽङ्गोपाङ्गत्रय संस्थानषट्क संहननषट्क-जातिपञ्चक-गतिचतुष्क- विहायोगतिंद्विकाऽऽनुपूर्वीचतुष्क-तीर्थकरनाम-उच्छ्वासनाम-उद्योतनामाऽऽतपनाम - पराघातनाम त्रसदशक-स्थावरदशक- उच्चैर्गोत्र- नीचैर्गोत्र - साता - सातवेदनीय हास्य-रति- अरति शोक - वेदत्रया-ऽऽयुश्चतुष्टयलक्षण त्रिसप्ततिसङ्ख्याऽध्रुवबन्धिप्रकृतिसमूहे च सर्वत्रोत्कृष्टाऽनुत्कृष्ट- जघन्या-ऽजघन्यलक्षणे चतुर्विकल्पेऽपि प्रदेशबन्धे 'द्विधा' द्विप्रकारः सादिरध्रुवश्च बन्धो भवति । तथा हि-अध्रुववन्धिनीनामध्रुवन्धित्वादेवोत्कृष्टाऽनुत्कृष्ट जवन्याऽजघन्यस्तत्प्रदेशबन्धः सर्वोऽपि सादि - अध्रुव एव भवति । स्त्यानर्द्धित्रिक-मिथ्यात्वा ऽनन्तानुबन्धिनां सप्तविधबन्धक उत्कृष्टयोगे वर्तमानो मिध्यादृष्टिरुत्कृटप्रदेश बन्धमेकं द्वौ वा समयौ यावत् करोति, सम्यग्दृष्टिरेताः प्रकृतीर्न बध्नातीति मिथ्यादृष्टिग्रहणम् | मिध्यात्ववर्जा एताः प्रकृतीः सास्वादनोऽपि बध्नाति परं भणितप्रकारेण सास्वादन - स्योत्कृष्टयोगो न लभ्यत इति तस्याग्रहणम् । उत्कृष्टयोगस्यैतावानेव काल इत्येक- द्विसमयनियमः । उत्कृष्टयोगात् प्रतिपत्य स एवानुत्कृष्टप्रदेशबन्धं करोति पुनः स एवोत्कृष्टमित्येवं द्वावप्येतौ सादि-अभ्रुवौ । जघन्यप्रदेशवन्धं पुनरेतासां सर्वजघन्यवीर्यलब्धिर्भवाद्यसमये वर्तमानः सप्तविधं बध्नन् अपर्याप्तसूक्ष्मनिगोदः करोति द्वितीयादिसमयेषु च स एवाजघन्यं करोति, कालान्तरेण पुनः स एव जघन्यं करोतीत्येतावपि द्वौ सादि - अध्रुव भवतः । तथा वर्णचतुष्क तैजस- कार्मणागुरुलघु-उपघात- निर्माणलक्षणस्य प्रकृतिनवकस्याप्युत्कृष्टा ऽनुत्कृष्टौ जघन्या - जघन्यौ च प्रदेशवन्धौ सादि-अध्रुवावेवमेव वक्तव्यौ । नवरमुत्कृष्टयोगो मूलप्रकृतिसप्तविधबन्धको नाम्नस्तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिकशरीरं हुण्डसंस्थानं स्थावरनाम बादर - सूक्ष्मयोरन्यतरद् अपर्याप्तकं प्रत्येक-साधारणयोरन्यतरद् अस्थिरनाम अशुभनाम दुर्भगनाम अनादेयनाम अयशःकीर्तिः वर्णचतुष्कं तैजस-कार्मणे अगुरुलघु उपघातं निर्माणमित्येवं त्रयोविंशतिमुत्तरप्रकृतीघ्नन् मिथ्यादृष्टिरुत्कृष्टप्रदेशबन्धको वाच्यः । शेषं तथैव । नाम्नो हि पञ्चविंशत्यादिवन्धग्रहणे बहवो भागा भवन्तीति त्रयोविंशतिबन्ध ग्रहणमिति ।
१३४
[गाथ