________________
१३८
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
ततः परमसङ्ख्ये यगुणवृद्धेषु प्रतिसमय मन्याऽन्ययोगस्थानकेषु सङ्क्रामन्ति । पर्याप्तास्तु सर्वेऽपि स्वप्रायोग्ये सर्वजघन्ययोगस्थानके जघन्यतः समयमुत्कृष्टतश्चतुरः समयान् यावद् वर्तन्ते, ततः परमन्यद् योगस्थानकमुपजायते । स्वप्रायोग्योत्कृष्टस्था' नकेषु तु जघन्यतः समयम्, उत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु जघन्यतः समयम् उत्कृष्टतस्तु क्वचित् त्रीन् क्वचिच्चतुरः क्वचित् पञ्च क्वचित् षट् ववचित् सप्तक्वचिदष्टौ समयान् यावद् वर्तन्ते इति । अयं चैतावानपि योगो मनःप्रभृतिसहकारिकारणवशात् संक्षिप्य सत्यमनोयोगा ऽसत्यमनोयोग-सत्यमृषामनोयोगा- ऽसत्यमृपामनोयोगसत्यवाग्योगा- ऽसत्यवाग्योग-सत्यमृषावाग्योगाऽसत्यमृषावाग्योग औदारिककाययोग औदारिकमिश्रकाययोग - वै क्रियकाययोग- वैक्रियमिश्रकाययोगा-ऽऽहारककाययोगा-ऽऽहारकमिश्रकाययोगकार्मणका योगभेदतः पञ्चदशधा प्रोक्तः, इत्यलं प्रसङ्गेन ।
एतेभ्यश्च योगस्थानेभ्यः 'अङ्खये यगुणाः' असङ्ख्यातगुणिताः "पयडि" त्ति भेदशब्दस्य प्रत्येकं सम्बन्धात् प्रकृतिभेदा: - ज्ञानावरणादीनां भेदा: । "असंखगुण" त्ति पदमनुभागबन्धस्थानानि यावत् सर्वत्र योजनीयम् । इयमत्र भावना - इह तावदावश्यकादिष्ववधिज्ञान-दर्शनयोः क्षयोपशमवैचित्र्यादसङ्ख्यातास्तावद् भेदा भवन्ति, ततश्चैतदावरणबन्धस्यापि तावत्प्रमाणाभेदाः सङ्गच्छन्ते, वैचित्र्येण बद्धस्यैव विचित्रक्षयोपशमोपपत्तेरिति । कथं पुनः क्षयोपशमवैचित्र्येऽप्यसङ्ख्यभेदत्वं प्रतीयते ? इति चेद् उच्यते - क्षेत्रतारतम्येनेति । तथाहि - त्रिसमयाहारकसूक्ष्मपनकसत्त्वावगाहनामानं जघन्यमवधिद्विकस्य क्षेत्रं परिच्छेद्यतयोक्तम् । यदाह सकलश्रुतपारदृश्वा विश्वानुग्रहकाम्यया विहितानेकशास्त्रसन्दर्भों भगवान् श्रीभद्रबाहुस्वामी
जावया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स ।
ओगाहणा जहन्ना, ओहीखेत्तं जहन्नं तु ॥ ( आव० नि० गा० ३० )
उत्कृष्टं तु सर्वबहुतैजस्कायिकजन्तूनां शूचिः सर्वतो भ्रमिता यावन्मात्रं क्षेत्रं स्पृशति तावन्मात्रं तस्य प्रमाणं भवति । यदाहुः श्रीमदाराध्यपादाः
सव्वबहुअगणिजीवा, निरंतरं जत्तियं भरिज्जंसु ।
खेत्तं सव्वदिसागं, परमोहीखेत्त निद्दिट्ठो ॥ ( आव० नि० गा० ३१ ) इति ।
ततो जघन्यात् क्षेत्रादारभ्य प्रदेशवृद्ध्या प्रवृद्धोत्कृष्टक्षेत्रविषयत्वे सत्यसङ्ख्येयभेदत्वमवधिद्विकस्य क्षेत्रतारतम्येन भवति, अतस्तदावारकस्यावधिद्विकस्यापि नानाजीवानां क्षेत्रादिभेदेन
१ सं० १ २ ० छा० म० ०नके तु ज० ॥
२ यावती त्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या अवधिक्षेत्रं जघन्यं तु ॥ ३ सर्वबहुकाग्निजीवा निरन्तरं यावद् भृतवन्तः । क्षेत्रं सर्वदिक्कं परमावधिक्षेत्रं निर्दिष्टम् ॥