________________
१२६ ]
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथाः
उत्कृष्ट प्रदेशबन्धं मानस्य करोति, क्रोधभागो लभ्यत इति कृत्वा । स एव मानबन्धे व्यवच्छिन्ने मायालोमो बध्नन् मायाया उत्कृष्ट प्रदेशवन्धं करोति, मानभागोऽपि लभ्यत इति कृत्वा । स एव मायाबन्धे व्यवच्छिन्ने लोभमेकं वध्वंस्तस्यैवोत्कृष्ट प्रदेशबन्धं करोति, एकं द्वौ वा समयौ, एतच्च विशेषणं प्रागपि द्रष्टव्यम्, समस्तमोहनीयभागस्तत्र लभ्यत इति लोभबन्धकस्यैव ग्रहणमिति । तथा सुखगतिः - प्रशस्तविहायोगतिः नरायुः त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सुरत्रिक - सुरगति-सुरानुपूर्वी सुरायुर्लक्षणं सुभगत्रिक-सुभग- सुस्वरा - ssदेयस्वरूपं वैक्रियद्विकं - वैकियशरीर- वै क्रियाङ्गोपाङ्गलक्षणं समचतुरस्त्रसंस्थानम् असातावेदनीयं “ वरं" ति वज्रर्षभनाराचसंहननम् इत्येतात्रयोदश प्रकृतीमिध्यादृष्टिः सम्यग्दृष्टिर्वा उत्कृष्टप्रदेशाः करोति ।
तथाहि - असातं यथा मिध्यादृष्टिः सप्तविधबन्धको बध्नाति तथा सम्यग्दृष्टिरपि सप्तविधबन्धक एवैतद् बध्नाति, अतः प्रकृतिलाघवादिविशेषाभावाद् उत्कृष्टयोगे वर्तमानौ द्वावप्यसातमुत्कृष्टप्रदेशत्रन्धं कुरूतः । देव-मनुष्यायुषोरप्यष्टविधबन्धकारकृष्टयोगे वर्तमानौ द्वावप्यविशेषेणोत्कृष्टत्रदेशबन्धं कुरुतः | देवगति-देवानुपूर्वी चे क्रियशरीर वैक्रियाङ्गोपाङ्ग समचतुरस्रसंस्थान - प्रशस्त विहा योगति सुभग सुम्बरा - ssदेयलक्षणा नव नामप्रकृतयो नाम्नोऽष्टाविंशतिबन्धकाले एव बन्धमागच्छन्ति, नाधस्तनेषु पूर्वोक्तरूपेषु त्रयोविंशति पञ्चविंशति-पड विंशतिबन्धेषु । तां चाष्टाविंशति देवगतिप्रायोग्यां सम्यग्दृष्टिर्मिथ्यादृष्टिश्च बध्नाति । तथाहि देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैकियशरीरं वैकियाङ्गोपाङ्ग तैजस- कार्मणे समचतुरस्रसंस्थानं वर्णचतुष्कम् अगुरुलघुनाम पराघातनाम उपवातनाम उच्छ्वासनाम प्रशस्तविहायोगतिनाम वसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगनाम सुखरनाम आदेयनाम यश:कीर्ति अवशःफीत्योरेकतरं निर्माणनाम इति । अतो देवगतिप्रायोग्याष्टाविंशतिबन्ध सहचरिता एता नवप्रकृतीर्निर्वर्तयति । सप्तविधबन्धको सम्यग्दृष्टि मिथ्यादृष्टी उत्कृष्टयोगे वर्तमानावविशेषेणोत्कृष्टप्रदेशाविवचः, यत एवाऽष्टाविंशतिर्मिध्यादृष्टि- सास्वादन - मिश्रा ऽविरत- देशविरतानां देवगतिप्रायोग्यं तामवसेया । अष्टाविंशतेरुपरितनेष्वेकोनत्रिंशदादिवन्धस्थानेष्वप्येता नव प्रकृतयो बध्यन्ते, केवलं तत्र भागवाहुल्यादुत्कृष्टः प्रदेशवन्धो न लभ्यत इत्यष्टाविंशतिसहचरितत्वेन ग्रहणम् । वज्रमनाराचस्यापि सम्यग्दृष्टिर्मिथ्यादृष्टिर्वा सप्तविधबन्धको नाम्नो वज्रपेभनाराचसहितामेकोनत्रिंशतं तिर्यग्गति- तिर्यगानुपूर्व्यां पञ्चेन्द्रियजाति: औदारिकशरीरम् औदारिकाङ्गोपाङ्ग तैजस-कार्मो वज्रर्वमनाराचसंहननं समचतुरस्रसंस्थानं वर्णचतुष्कम् अगुरुलघु उपघातं पराचातम् उच्छ्वासनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा ऽस्थिरयोरेकतरं शुभाशुभयोरेकतरं सुभगनाम मुखरनाम आदेयनाम यशःकीर्ति अयशः कोल्थों रेकतरं
7