________________
११-६२ ] शतकनामा पञ्चमः कर्मग्रन्थः।
१२७ निर्माणमितिलक्षणां, मनुष्यगति-मनुष्यानुपूव्यौँ पञ्चेन्द्रियजातिः औदारिकशरीरम् औदारिकाङ्गोपाङ्ग तैजस-कार्मणे समचतुरस्रसंस्थानं वज्रर्पभनाराचसंहननं वर्णचतुष्कम् अगुरुलघु पराघातम् उपघातनाम उच्छ्वासनाम प्रशस्तविहायोगतिः सनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिअयशःकीयोरेकतरं निर्माणमितिलक्षणां वा निर्वर्तयन उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धं करोति । एकोनत्रिंशतोऽधस्तनबन्धेष्विदं न बध्यते, त्रिंशद्धन्धे तु बध्यते, केवलं भागबाहुल्यात् तत्रोत्कृष्टप्रदेशबन्धो न लभ्यत इत्येकोनत्रिंशद्वन्धगतस्यैव ग्रहणमिति सभ्यग्दृष्टि-मिथ्यादृष्टयोरविरोधेन भावितस्त्रयोदशानामपि प्रकृतीनामुत्कृष्टः प्रदेशबन्ध इति ॥ ९१ ।।
निद्दापयलादुजुयलभयकुच्छातित्थ सम्मगो सुजई ।
आहारदुर्ग सेसा, उकोसपएसगा मिच्छो ॥९२ ॥ निद्रा प्रचला द्वयोयुगलयोः समाहारो द्वियुगलं-हास्य-रति-अरति-शोकाख्यं, भयं "कुच्छ" त्ति जुगुप्सा "तित्थ" ति तीर्थकरनामेत्येतत् प्रकृतिनवकं सम्यग् गच्छति ज्ञानादिमोक्षमार्गमिति सम्यग्गः-सम्यग्दृष्टिः उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशं बध्नाति । तत्र निद्रा-प्रचलयोरविरतसम्यग्दृष्टयादयोऽपूर्वकरणान्ताः सर्वोत्कृष्टयोगे वर्तमानाः सप्तविधवन्धकाले एकं द्वौ वा समयावुत्कृष्ट प्रदेशबन्धं कुर्वन्ति, आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधवन्धकग्रहणम् । स्त्यानचित्रिकं सम्यग्दृष्टयो न बध्नन्त्यतस्तद्भागलाभोऽपि भवतीति सम्यग्दृष्टीनामेव ग्रहणम् । मिथ्यादृष्टि-सास्वादनौ स्त्यानचित्रिकं बध्नीत इति नेह गृहीतौ । मिश्रस्त्वेतद् न बध्नाति, केवलमुक्तनीत्या तस्योत्कृष्टयोगो न लभ्यत इति सोऽपि नेहाधिकृतः । हास्य-रति-अरति-शोक-भयजुगुप्सानां तु ये ये सम्यग्दृष्टयोऽविरताद्यपूर्वकरणान्तानां मध्ये तद्वन्धकास्ते ते उत्कृष्टयोगे वर्तमाना उत्कृष्ट प्रदेशबन्धमभिनिवर्तयन्ति, मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् । तीर्थकरनाम्नोऽप्यविरताद्यपूर्वकरणान्तः सम्यग्दृष्टिमूलप्रकृतिसप्तविधवन्धको देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्ग समचतुरस्रसंस्थानम् उच्छ्वासनाम पराघातनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोः शुभा-ऽशुभयोयशःकीर्ति-अयशाकीयोः पृथगन्यतरं सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्कं तेजसकामणे अगुरुलघु उपघातनाम निर्माणमित्येतामष्टाविंशति तीर्थकरनामसहितामेकोनत्रिंशतं देवगतिप्रायोग्यामुत्तरप्रकृतीर्वनन् उत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं करोति, मिथ्यादृष्टिरेतद् न बध्नातीति सम्यग्दृष्टिग्रहणम् । तीर्थकरनामसहिताश्च त्रयोविंशत्यादिकाः पूर्वोक्तरूपा नाम्न उत्तरप्रकृतयो न बध्यन्ते । विशदेकत्रिंशद्वन्धौ तु पूर्वोक्तनीत्या तीर्थकरनामसहितौ वध्येते, केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इति शेषपरिहारेणैकोनत्रिंशत्प्रकृति