________________
१०-९१] शतकनामा पञ्चमः कर्मग्रन्थः ।
१२५ लभ्यते । तथाहि--द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धस्वामिनमविरतमेव निर्देश्यति "अजया देमा वितिकसाए" इति वचनात् । यदि तु मिश्रेऽप्युत्कृष्टयोगो लभ्यते तदा सोऽपि तत्स्वामितया निर्दिश्येत । न च वक्तव्यम्-मिश्रादल्पतरप्रकृतिबन्धकोऽविरत इत्ययमेव गृहीतः, यतो. ऽविरतोऽपि मूलप्रकृतीनां सप्तविधवन्धकस्तत्र ग्रहीष्यते, मिश्रोऽपि सप्तविधबन्धक एव. उत्तरप्रकृतीरपि मोहनीयस्य सप्तदशाविरतो बध्नाति, निश्रोऽप्येतावतीरेव, तस्मादुत्कृष्टयोगाभावं विहाय नापरं तत्परित्यागे कारणं समीक्षामहे इति । मिश्रेऽप्युत्कृष्टयोगाभावात् सप्तैव मोहोत्कृष्टप्रदेशवन्धका इति स्थितम् । "छहं सतरस सुहमु" ति मूलप्रकृतीनां 'पण्णां' ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां सूचकत्वात सूत्रस्य 'सूक्ष्मः' सूक्ष्मसम्पराय उत्कृटयोगे वर्तमान उत्कृष्टप्रदेशवन्धं विदधाति । सूक्ष्मसम्परायोहि मोहा-ऽऽयुषी न बध्नाति, अतस्तद्भागोऽधिको लभ्यत इत्यस्येच ग्रहणमिति । तथा 'सदशानां' ज्ञानावरणपञ्चक-दर्शनावरणचतुष्टय. सातवेदनीय-यशःकीर्ति-उच्चैर्गोत्रा-ऽन्तरायपश्चकलक्षणानामुत्तरप्रकृतीनां सूक्ष्मसम्पराय उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धं विदधाति, मोहा-ऽऽयुपी असो न बध्नातीत्यत्र 'तद्भागोऽधिको लभ्यते । अपरं च दर्शनावरणभागो नामभागश्च सर्वोऽपीह यथासङ्ख्य दर्शनावरणचतुष्कस्य यशाकीर्तश्च - कस्या भवतीति सूक्ष्मसम्परायस्यैव ग्रहणम् । "अजया देसा वितिकसाए" त्ति 'अयताः' अविरतसम्यग्दृष्टयः सप्तविधबन्धका उत्कृष्टयोगे वर्तमानाः 'द्वितीयकपायान्' अप्रत्याख्यानावरणानुत्कृष्टप्रदेशबन्धान् विदधति, मिथ्यात्वमनन्तानुबन्धिनश्वेते न बध्नन्त्यतस्तद्भागद्रव्यमधिकं लभ्यत इत्यमीषामेव ग्रहणम् । तथा 'देशाः' देशविरताः सप्तविधबन्धका उत्कृष्टयोगे वर्तमानाः 'तृतीयकपायान्' प्रत्याख्यानावरणाख्यानुत्कृष्टप्रदेशबन्धान कुर्वते, अप्रत्याख्यानावरणानामप्यमी अबन्धका अतस्तद्भागोऽधिको लभ्यत इति कृत्वा ॥१०॥
पण अनियट्टी सुखगइनराउसुरसुभगतिगविउविदुगं ।
समचउरंसमसायं, वरं मिच्छो व सम्मो वा ॥ ९१ ॥
"पण" त्ति पञ्च प्रकृतीः-पुरुषवेद-संज्वलनचतुष्टयलक्षणाः अनिवृत्तिवादरः सर्वोत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धाः करोति । तत्र पुरुषवेदस्य युवेद-संज्वलनचतुष्टयात्मकं पञ्चविधं बध्नन् असावुत्कृष्ट प्रदेशवन्धं करोति, हास्य-रति-भय-जुगुप्साभागो लभ्यत इत्यस्येव ग्रहणम् । संज्वलनक्रोवस्यानिवृत्तिवादरःपुवेदबन्धे व्यवच्छिन्ने संज्वलनक्रोधादिचतुष्टयं बनन उत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं विदधाति, मिथ्यात्वा-ऽऽधकषायद्वादशकभागः सर्वनोकपायभागश्व लभ्यत इति कृत्वा । संज्वलनमानस्य स एव क्रोधयन्धे व्यवच्छिन्ने संज्वलनमानादित्रयं बनन्
१ सं० १-२ म० छा० तद्भागो लभ्यः ॥