________________
१२४ देवेन्द्रसूरिविरचितः स्वोपाटीकोपेतः
[गाथा प्रतीत्य उत्कृष्ट प्रदेशबन्धस्वामिनं निरूपयन्नाह--
मिच्छ अजयचउ आऊ, चितिगुण विणु मोहि सत्त मिच्छाई ।
छण्हं सतरस सुहमो, अजया देसा बितिकसाए । ९० ॥
'आउ" ति आयुष उत्कृष्ट प्रदेशबन्धस्वामिनः पञ्च, तद्यथा--'मिच्छ" ति मिथ्यादृष्टिः "अजयचउ" त्ति अयतेन-अविरतसम्यग्दृष्टिना उपलक्षिताश्चत्वारः--अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-ऽप्रमत्तलक्षणाः पञ्चैव जनाः "अप्पयरपयडिबंधी" (गा० ८९) इत्यादिभणितगाथासम्भवद्विशेषणविशिष्टा आयुष उत्कृष्टप्रदेशबन्धमुपकल्पयन्ति । सम्यग्मियादृष्टिरपूर्वकरणादयश्चायुर्न बध्नन्तीति नेह गृहीताः । सास्वादनस्तहर्यायुर्वघ्नात्येव स किमिति न गृहीतः ? इति चेद् उच्यते-तत्रोत्कृष्टप्रदेशनिबन्धनोत्कृष्टयोगाभावात् । तथाहि--अनन्तानुबन्धिनामुस्कृष्टोऽनुत्कृष्टश्च प्रदेशबन्धो मिथ्यादृष्टौ साद्यध्रुव एव भणिष्यते, यदि तु सास्वादनेऽप्युत्कृष्टयोगो लभ्यते तदाऽसावप्यनन्तानुबन्धिनो बध्नात्येव, अतो यथाऽविरतादिष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्यादिचतुर्विकल्पोऽप्यभिधास्यते तथैवानन्तानुबन्धिना मिथ्यात्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्यादिचतुर्विकल्पोऽपि स्यात् , न चैवं निर्दिी दें)क्ष्यते, तस्माद् ज्ञायतेऽल्पकालभावित्वेन तथाविधप्रयत्नाभावादन्यतो वा कुतश्चित्कारणात् सास्वादनस्योत्कृष्टयोगो नास्ति । किञ्च अनन्तरमेवोत्तरप्रकृतिस्वामित्वे मतिज्ञानावरणादिप्रकृतीनां प्रत्येकं सूक्ष्मसम्परायादिषत्कृष्टं प्रदेशबन्धमभिधाय भणितशेषप्रकृतीनां मिथ्यादृष्टिमेवोत्कृष्टप्रदेशबन्धस्वामिनं निर्देष्यति, न सास्वादनम् , यद् वक्ष्यति-- सेसा उक्कोसपएसगा मिच्छो " ( गा० ९२ )। बृहच्छतकेऽप्युक्तं--
सेसपएसुक्कडं मिच्छो ।। ( गा०६६) इति । अतोऽपि ज्ञायते 'नास्ति सास्वादनस्योत्कृष्टयोगसम्भवः' । अतो ये सास्वादनमप्यायुष उत्कृष्टप्रदेशबन्धस्वामिनमिच्छन्ति तन्मतमुपेक्षणीयमिति स्थितम् ।
"बितिगुण विणु मोहि सत्त मिच्छाइ" त्ति 'मोहे' मोहनीयस्योत्कृष्टप्रदेशबन्धस्वामित्वे 'द्वितीय-तृतीयगुणौ विना' सास्वादनसम्यग्दृष्टि सम्यग्मिथ्यादृष्टिगुणस्थानके च वर्जयित्वा शेषाणि मिथ्यादृष्टयादीनि अनिवृत्तिवादरान्तानि सप्त गुणस्थानकान्यधिक्रियन्ते ।
इदमत्र हृदयम्--मिथ्यादृष्टि-अविरत-देशविरत-प्रमत्ता-ऽप्रमत्ता-ऽपूर्वकरणा-निवृत्तियादरगुणस्थानकवर्तिनः सप्त जना उत्कृष्टयोगे वर्तमानाः सप्तविधबन्धका मोहस्योत्कृष्टं प्रदेशबन्धं कुर्वन्ति । अन्ये तु सास्वादन-मिश्रावपि सगृह्य “मोहस्स नव उ ठाणाणि" त्ति पठन्ति, तच्च न युक्तियुक्तम् , यतः सास्वादनस्योत्कृष्टयोगो न लभ्यते इत्युक्तमेव, मिश्रेऽप्युत्कृष्टयोगो न