________________
८४-८५] शतकनामा पञ्चमः कर्मग्रन्थः ।
- ११५ द्धरणमुद्धारस्तद्विषयं-तत्प्रधानं वा पल्योपममुद्धारपल्योपमम् १ । अद्धा-कालः, स च प्रस्तावाद् वालाग्राणां तत्खण्डानां वाऽपहारे प्रत्येक वर्षशतलक्षणस्तत्प्रधानं पल्योपममद्धापल्योपमम् २ । क्षेत्रम्-आकाशप्रदेशरूपं तत्प्रधानं पल्योपमं क्षेत्रपल्योपमं च ३ इह । “समयवाससयसमए केसवहारो" त्ति तत्रोद्धारपल्योपमे केशानां-बालाग्राणां समये समयेऽपहारः-उद्धरणं क्रियते, अद्धापल्योपमे वर्षशते केशापहारः क्रियते, क्षेत्रपल्योपमे समये समये केशापहारः-केशस्पृष्टाऽस्पृष्टाकाशप्रदेशापहारः क्रियते । तत्र 'दीवोदहिआउतसाइपरिमाणं" ति तत्रोद्धारपल्योपमेन प्रयोजनं द्वीपोदधिपरिमाणं-द्वीपा उदधयश्चानेन प्रमीयन्ते, तथाऽद्धापल्योपमेन प्रयोजनम् आयुःपरिमाणं-'देव-नारक-तिर्यङ्-मनुष्याणामायूप्यनेन मीयन्त इत्यर्थः, क्षेत्रपल्योपमेन प्रयोजनं त्रसादिपरिमाणम् , आदिशब्दात् पृथिवीकायिका-ऽप्कायिक-तेजस्कायिक-वायुकायिक-वनस्पतिकायिकानां परिमाणं ग्राह्यम् । उक्तं च
'एएण खित्तसागरउवमाणेणं हविज्ज नायव्यं ।
पुढविदगअगणिमास्यहरियतसाणं परीमाणं ॥ (जीवसमा० गा० १३३) इति गाथाक्षरार्थः । भावार्थः पुनरयम्-इह त्रिविधं पल्योपमम् । तद्यथा-उद्धारपल्योपमम् अद्धापल्योपमम् क्षेत्रपल्योपमम् । पुनरेकैकं द्विधा- बादरं सूक्ष्मं च । तत्रायाम-विस्तराभ्यामवगाहेन चोत्सेधाशुलनिष्पन्नैकयोजनप्रमाणो वृत्तत्वाच्च परिधिना किश्चिदनषड्भागाधिकयोजनत्रयमानः पल्यो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कर्पतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तैः प्रचयविशेषाद् निबिडतरमाकर्ण तथा भ्रियते यथा तानि वालाग्राणि वह्निर्न दहति वायु पहरति जलं नोत्कोथयति, ततः समये समये एकेकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति तावान् कालः सङ्ख्य यसमयमानो बादरमुद्धारपल्योपमम् ! एतेषां च दशकोटिकोटयो बादरमुद्धारसागरोपमम् , महत्त्वात् सागरेण-समुद्रेणोपमा यस्येति कृत्वा । बादरे च प्ररूपिते सूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपल्योपम-सागरोपमयोः प्ररूपणम् , न पुनरेतत्प्ररूपणेऽन्यद् विशिष्टं फलमस्तीति । एवं बादरेष्वद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यम् । यदुक्तमनुयोगद्वारेषु--
'तत्थ णं जे से वावहारिए उद्धारपलिओवमे से णं इमे, से जहानामए पल्ले मिया जोयणं आयामविक्वंभेणं जोयणं च उडु उच्चत्तेणं तिगुणसविसेसं परिरएणं, से णं एगाहियवेहियतेहियाणं
१ त० म० देवानां नारका० । छा० सं १-२ देवानां नरक० ॥ २ एतेन क्षेत्रसागरोपमानेन भवेज्ज्ञातव्यम् । पृथ्वीदकाग्निमारुतहरितत्रसानां च परिमाणम् ॥
३ तत्र यत् तद् व्यावहारिक उद्धारपल्योपमं तद् इदम् असौ यथानामकः पल्यः स्याद् योजन आयामविष्कम्भाभ्यां योजनश्चोर्ध्वमुच्चे त्वेन सविशेषत्रिगुणः परिरयेण, स एकाहिकद्वयहिकत्र्यहिकैः