________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
"एगभवे दुक्खुत्तो, चरित्तमोहं उवसमिज्जा | ( कर्मप्र ० ३७६ )
तत्र सास्वादनं प्रति जघन्यान्तरस्योक्तत्वात् श्रेणिप्रतिपतितस्य च मिश्रगमनाभावात् तयोर्वर्जनमुक्तम् | श्रेणिगमनाभावे तु मिश्रस्य सास्वादनवर्जशेषगुणस्थानकानां च मिथ्यादृष्ट्यादीनामप्रत्तान्तानां परावृत्य परावृत्य गमनत आन्तमौहूर्तिकमन्तरं प्राप्यते । क्षपक क्षीणमोह सयोगिकेवलि - अयोगिकेवलिनां त्वन्तरचिन्ता नास्ति तेषां प्रतिपातस्यैवाभावादिति ।
११४
| गाथाः
उक्तं जघन्यमन्तरं सर्वगुणस्थानकानाम् । इदानीमुत्कृष्टमन्तरमाह - "गुरु मिच्छि के छट्ठी" इत्यादि । 'गुरु' उत्कृष्टमन्तरं "मिच्छि" त्ति 'मिथ्यात्वे' मिथ्यादृष्टिगुणस्थानकस्य द्वे षट्पष्टी' षट्षष्टिद्वयम् । अयमत्र भावार्थ:- यः कथिद् जन्तुविशुद्धिवशाद् मिध्यादृष्टित्वं परित्यज्य सम्यक्त्वं प्रतिपन्नः, ततः सागरोपमषट्षष्टिप्रमाणमुत्कृष्ट सम्यक्त्वकालं प्रतिपाल्य अन्तर्मुहूर्तमेकं सम्यग्मिथ्यात्वं गच्छति, ततो भूयोऽपि सम्यक्त्वमासाद्य सागरोपमषट्पष्टिं यावत् तदनुपालय तत ऊर्ध्वं यो न सिध्यति सोऽवश्यं मिथ्यात्वं गच्छति, तत इत्थं सागरोपमषट्षष्टिद्वयरूपं सामर्थ्यतो मिश्रान्तमुहूर्त नरभवाधिकमुत्कृष्ट मिथ्यात्वस्यान्तरालं भवतीति । "इयरगुणे" त्ति इतरगुणस्थानकविषये । कोऽर्थः मिथ्यादृष्टिगुणस्थानका पेक्षयाऽन्यगुणस्थानकेषु सास्वादनादिषूपशान्तमोहान्तेषु 'गुरु अन्तरम्' उत्कृष्टोऽन्तरालकालो भवति । कियद् १ इत्याह- “ पुग्गल - द्धंतो” चि सूचकत्वात् सूत्रस्य पुद्गलस्य - पुद्गलपरावर्तस्यार्धं पुद्गलपरावर्तार्द्धं तस्यान्तरं - मध्यं पुद्गलपरावर्तार्द्धान्तिः, किञ्चिदूनं पुद्गलपरावर्तार्द्धमित्यर्थः । इदमत्र तात्पर्य - सास्वादनादय उपशमश्रेणिगतापूर्वक रणधुपशान्तमोहान्ताथ जीवा निजनिजगुणस्थानकावस्थितेर्यदा परिभ्रष्टास्तदोत्कृष्टतः किश्चिदूनं पुद्गलपरावर्तार्द्धं यावदपारनंसारपारावारमध्यमवगाह्य पुनस्तानि गुणस्थानकानि लभन्ते नाव, तत ऊर्ध्वं च सम्यक्त्वादिगुणान् सम्प्राप्य अवश्यं जीवाः सिध्यन्तीति, ततो देशोनार्ध पुद्गल परावर्तमानमेषामुत्कृष्टमन्तरं भवति । क्षपकक्षीणमोहादीनां चान्तरमेव नास्ति, प्रतिपाताभावादिति ॥ ८४ ॥
1
इह सास्वादनस्य जघन्यमन्तरं पल्योपमासङ्ख्ये यांश उक्तम् । अतः पत्योपमस्वरूपं सप्रपञ्च प्रचिकटयिषुराह-
उद्धार अड खितं, पलिय तिहा समयवाससघ समए । दीवोदहिआउतसाइपरिमाणं
केसवहारो
॥ ८५ ॥
धान्यपत्यवत् पल्यं -- पल्योपमं 'त्रिधा ' त्रिप्रकारं भवति । सिलोपः प्राकृतत्वात् । तथाहिउद्धारपल्योपमम् अद्धापल्योपमं क्षेत्रपल्योपमं च । तत्र वालाग्राणां तत्खण्डानां वा प्रतिसमयमू
१ एकस्मिन् मवेद्विवारित्रमोहमुपशमयेत् ॥