________________
८३-८४ 7
शतकनामा पञ्चमः कर्मग्रन्थः ।
पुनस्तत्प्राप्तेर्व्यवधानम् अन्तरालमिति यावत्, 'ह्रस्वं ' जघन्यम् । तत्र सास्वादन गुणस्थानकस्य जघन्यमन्तरं पल्योपमासङ्ख्ये यभागः, इतरगुणस्थानकानां तु जघन्य' मन्तमुहूर्तमित्यक्षरार्थः ।
११३
भावार्थः पुनरयम्-योऽनादिमिथ्यादृष्टिरुद्वलितसम्यक्त्व- मिश्रपुञ्जो वा मिध्यादृष्टिः षड्विंशतिसत्कर्मा सन् अन्तरकरणादिना प्रकारेणोपलब्धौपशमिकसम्यक्त्वोऽनन्तानुबन्ध्युदयात् सास्वादनभावमासाद्य मिथ्यात्वं गतः सन् यदि तदेव सास्वादनत्वं पुनर्लभतेऽन्तरकरणप्रकारेणैव तदा जघन्यतोSपि पल्योपमासङ्ख्ये यभागोर्ध्वं लभते नार्वाक् । किं कारणम् १ इति चेद् उच्यते यतः सास्वादनाद् मिथ्यात्वं गतस्य प्रथमसमये सम्यक्त्व - मिश्रपुञ्जौ सत्तायामवश्यं तिष्ठत एव । न च तयोः सत्तायां वर्तमानयोः पुनरौपशमिकसम्यक्त्वं लभते, तदभावात् सास्वादनत्वं दुरापास्तत्र । यदि पुञ्जद्वयसद्भावे औपशमिकसम्यक्त्वस्य न लाभस्तर्हि पल्योपमासङ्ख्येयभागेऽप्यतिक्रान्ते कथं सास्वादनलाभः ९ इति चेद् उच्यते - इह सम्यक्त्व- मिश्रपुञ्ज मिथ्यात्वं गतः प्रतिसमय मुद्वर्तयति, तद्दलिकं प्रतिसमयं मिथ्यात्वे प्रक्षिपतीत्यर्थः । अनेन च क्रhinigaर्त्यमानौ पल्योपमासङ्घये यभागेन सर्वशोद्वर्तितो निःसत्ताकं नीतौ भवतः, इत्थमेव कर्मप्रकृत्यादिष्वभिहितत्वात् । ततः पल्योपमासङ्घये यभागेन मिश्र सम्यक्त्वपुञ्जयोरुद्वर्तितयोस्तदन्ते कश्चिद् जन्तुः पुनरप्योपशमिकसम्यक्त्वमासाद्य सास्वादनत्वं गच्छतीत्येवं सास्वादनस्य पल्योपमासङ्ख्यं यभागोऽन्तरं भवतीति ।
नन्वेकदोषशमश्रेणेः प्रतिपतितः सास्वादन भावमनुभूय यदा पुनरप्यन्तमुहूर्तेन एतामेवोपशमश्रेणि प्रतिपद्य ततः प्रतिपतितः सास्वादनभाव लभते तदा जघन्यतोऽल्पमेवान्तरं लभ्यते, तत्किमिति पल्योपमासङ्ख्यं यभागो जघन्यमन्तरमित्युक्तम् सत्यम्, उपशमः प्रतिपतितो यः सास्वादनत्वं गच्छति स केवलं मनुजगतिभावित्वेनाल्पत्वाद् नेह विवक्षित इतीतरस्यैव प्रभूतस्य चतुर्गतिवर्तित्वादन्तरालचिन्तेति । इतरगुणस्थानकेभ्यश्च मिथ्यादृष्टि सम्यग्मिथ्यादृष्टि- अविरत -- सम्यग्दृष्टि-देशविरत-प्रमत्ता-प्रमत्तोपशमश्रेणिगता पूर्व करणा-ऽनिवृत्तिवादर- सूक्ष्म सम्पराय-उपशान्तमोहलक्षणेभ्यः परिभ्रष्टः पुनर्जघन्यतोऽन्तमुहूर्तेऽतिक्रान्ते तान्येव गुणस्थानकानि लभते इति तेषां जघन्यतोऽन्तमुहूर्तमेवान्तरालं भवति । तथाहि कश्चिद् जीव उपशमश्रेण्यारूढः सन् उपशान्तत्वमपि सम्प्राप्य प्रतिपतितो मिथ्यादृष्टित्वं यावदवाप्नोति, ततो भूयोऽप्यन्तमुहूर्तेन तान्येवीपशान्तगुणस्थानान्तानि यदाऽऽरोहति तदा शेषाणां सास्वादन - मिश्रगुणस्थानकवर्जितानां गुणस्थानानां प्रत्येकं जघन्यत आन्तमौहूर्तिकमन्तरं भवति, एकस्मिथ भवे वारद्वयमुपशमश्रेणिकरणं समनुज्ञातमेव । उक्तं च-
१ सार्द्धशतकप्रकरणटीकायां न्यमन्तरमन्तर्मु० २ छा० म० व्वदाप्नोति ॥ ३ सं० १० ०दात्रशेषा० ॥ 15