________________
११२
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[गाथा तथेहापूर्वकरणा-ऽनिवृत्तिकरणाद्धाद्वयाद् विशेषाधिकोऽन्तमुहूर्तप्रमाणो गुणश्रेणेः कालो भवति, तावन्तं च कालं दलिकविरचनं करोति । तथाऽधस्तनाधस्तनोदयक्षणे वेदनतः क्षीणे सति शेषक्षणेषु दलिकं विरचयति, न पुनरुपरि गुणश्रेणिं वर्धयति । उक्तं च--
__ 'सेढीऍ कालमाणं, दुण्ह य करणाण समहियं जाण ।
खिज्जइ सा उदएणं, जं सेसं तम्मि निक्लेवो ॥ सम्यक्त्वश्रेणेश्यं क्रमः । शेषाणामपि श्रेणीनां दलरचनायां प्राय एष एव विधिः किश्चिद्विशेषोऽपि चास्ति, केवलं स कर्मप्रकृत्या दिग्रन्थान्तरादवसेयो नेह प्रतन्यते, ग्रन्थगौरवभयात् । अधुना यद्गुणवशाद् जीवानां यावती निर्जरा तामाह-एते-प्रागुपदर्शिताः सम्यक्त्व देशविरति-सर्वविरत्यादयो गुणाः धर्मा येषां ते एतद्गुणाजीवा इत्युत्तरेण सम्बन्धः । कथम् ? इत्याह'पुनः' इति पुनःशब्दो गुणश्रेणिस्वरूपापेक्षया व्यतिरेकार्थः । 'क्रमशः' यथोत्तरं क्रमेणासङ्ख्यातगुणिता निर्जरा-कर्भपुद्गलपरिशाटरूपा येषां तेऽसङ्ख्यगुणनिर्जराः 'जीवाः' सच्चा भवन्तीति शेषः । तत्र सम्यक्त्वगुणा जीवाः स्तोकपुद्गलनिर्जरकाः, ततो देशविरता असङ्ख्य यगुणनिर्जराः, ततः सर्वविरता असङ्ख्य यगुणनिर्जराः, ततोऽनन्तानुबन्धिविसंयोजका असङ्ख्य यगुणनिर्जराः, ततो दर्शनक्षपका असङ्ख्य यगुणनिर्जराः, ततो मोहशमका असङ्खथे यगुणनिर्जराः, तत उपशान्तमोहा असवय यगुणनिर्जराः, ततः क्षपका असङ्खये यगुणनिर्जराः, ततः क्षीणमोहा असङ्ख्य यगुणनिर्जराः, ततः सयोगिकेवलिनोऽसङ्खये यगुणनिर्जराः, ततोऽप्ययोगिकेवलिनोऽसङ्ख्य यगुणनिर्जराः॥८३।।
इहोत्तरोत्तरगुणारूढानां जन्तूनामसङ्खये यगुणनिर्जराभाक्त्वमुक्तम् , उत्तरोत्तरगुणाश्च यथाक्रममविशुद्धयपकर्ष-विशुद्धिप्रकर्षस्वरूपाः सन्तो गुणस्थानकान्युच्यन्ते, अतस्तेषां गुणस्थानकानां जघन्यमुत्कृष्टं चान्तरालं प्रतिपादयन्नाह
पलि यासंख्समुह, सासणइयरगुण अंतरं हस्सं । गुरु मिच्छि बे छसही, इयरगुणे पुग्गलहतो ॥ ८४ ।। इह 'भामा सत्यभामा' इति न्यायात् पल्योपमासङ्खयांशोऽन्तमुहूर्त च जघन्यमन्तरमिति योगः । केषाम् ? इत्याह-सास्वादनश्च इतरगुणाश्च-अवशिष्टगुणस्थानकानि सास्वादनेतरगुणास्तेपाम , प्राकृतत्वादन विभक्तिलोपः। 'अन्तरं' विवक्षितगुणस्थानावस्थितेः प्रच्युतानां
१ श्रेणेः कालमानं द्वयोश्च करणयोः समधिकं जानीहि । क्षीयते सोदयेन यच्छेषं तस्मिन्निक्षेपः ।।
२ सटीकेयं गाथा सार्द्धशतकप्रकरणस्य १०५ गाथा-तट्टीकासमा ॥३ सं० १-२ त० म० बा० व्यासंखंतमु