________________
८२-८३ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
१११
विशुद्धिपरिकलितः सङ्ख्ये गुणहीनान्तर्मुहूर्तवेद्यामसङ्घये यगुणप्रदेशाग्रां च तां परिकल्पयति । तदेवं यथा यथाऽतिविशुद्धिस्तथा तथा हस्त्रकाल- बहुप्रदेशाग्रत्वं च गुण र्भवतीति ॥ ८२ ॥ निरूपिता गुणश्र णिरेकादशधा । सम्प्रत्यस्या एव स्वरूपं पूर्वप्रदर्शित सम्यक्त्वादिगुणारूढजन्तूनां मध्ये यस्य जन्तोर्यावद्गुणा दलिकनिर्जरा तां च प्ररूपयन्नाह-
'गुणसेढी दलरयणाऽणुसमयमुदयादसंखगुणणाए । एयगुणा पुण कमसो, असंखगुणनिजरा जीवा ॥ ८३ ॥
-
गुन-गुणकारेण श्र णिगुणश्र ेणिः । श्र णिशब्दवाच्यमाह - "दलरयण" त्ति दलस्य उपरितनस्थितेरवतारितप्रदेशाग्रस्य रचना - सन्न्यासो दलरचना । कथं पुनर्दलिकरचना ? कस्माच्चारभ्य केन च गुणकारेण विधीयते जन्तुना ? इत्याह - 'अनुसमयं ' ति समयं समयमनु - लक्षी - कृत्य प्रतिसमयमित्यर्थः, 'उदयाद्' उदयक्षणादारभ्य 'असङ्ख्यगुणनया' असङ्ख्यातगुणकारेण । इदमुक्तं भवति - उपरितन स्थितेरवतारितं दलिकमुदयक्षणे स्तोकं जन्तुर्विरचयति, द्वितीयक्षणेऽसङ्ख्यातगुणम्, तृतीयक्षणेऽसङ्ख्यातगुणम् इत्येवं प्रतिसमयमसङ्ख्यातगुणकारेण दलरचना तावद् नेया यावद् गुणश्रेणिमस्तकमिति । तथोपरितनस्थितेर्दलिकावतारणस्याप्ययमेव न्यायो वाच्यः । यथा — गुणश्रेणिन्यसन योग्यमुपरितनस्थितेः प्रथमसमये स्तोकं गृह्णाति, द्वितीयसमयेऽसङ्ख्यातगुणम्, एवं प्रतिसमयमसङ्ख्यातगुणकारेण तावद् नेयं यावत् चरमसमय इति । उक्तं चवरिल्लठिईहिंतो, घित्तूर्णं पुग्गले उ सो खिवइ । उदयसमयभिम थोवे, तत्तो य असंखगुणिए उ ॥ बीयमि खिवइ समए, तइए तत्तो असंखगुणिए उ । एवं समए समए, अंतमुहुत्तं तु जा पुन्नं ॥ दलियं तु गिण्हमाणो, पढमे समयम्मि थोवयं गिहे । उवरिल्लठिईहिंतो, बीयम्मि असंखगुणियं तु 11 गिves समए दलियं, तइए समए असंखगुणियं तु । एवं समए समए, जा चरिमो अंतसमओ त्ति ॥
१ सटीकेयं गाथा सार्द्धशतकप्रकरणस्य १०४ गाथा - तट्टीकासमाना ॥
२ उपरितनस्थिते गृहीत्वा पुद्गलांस्तु स क्षिपति । उदयसमये स्तोकांस्ततश्चासङ्ख्यगुणितांस्तु ॥ द्वितीये क्षिपतिसमये तृतीयस्मिंस्ततोऽसङ्ख्यगुणितांस्तु । एवं समये समये अन्तर्मुहूर्त्त तु यावत् पूर्णम् ॥ दलिकं तु गृह्णन् प्रथमे समये स्तोककं गृह्णीयात् । उपरितनस्थितेर्द्वितीये असङ्ख्यगुणितं तु ॥ गृह्णाति समये दलिकं तृतीये समयेऽसङ्ख्यगुणितं तु । एवं समये समये यावच्चरमोऽन्तसमय इति ॥