________________
११. देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा । प्रतिपादितं मूलोत्तरप्रकृतीनां भागस्वरूपम् । सम्प्रति भागलब्धदलिकं प्रततरं गुणश्रेणिरचनयैव जन्तुः क्षायति अतो गुणश्रेणिस्वरूपप्रतिपादनार्थमाह
सम्मदरसव्वविरई उ अणविसंजायदंसखवगे य ।
मोहसमसंतखवगे, खीणसजोगियर गुणसेढी ॥ ८२ ।। गुणश्रेणय एकादश भवन्तीति सम्बन्धः । कुत्र कुत्र ? इत्याह--" सम्मदरसव्वविरई उ" इत्यादि । तत्र "'सम्म" त्ति सम्यक्त्वं-सम्यग्दर्शनं तल्लाभे एका गुणश्रेणिः । तथा विरतिशब्दस्य प्रत्येकं सम्बन्धाद् दरविरतिः-देशविरतिस्तल्लामे द्वितीया गुणश्रेणिः । सर्वविरतिःसम्पूर्णविरतिस्तल्लाभे तृतीया गुणश्रेणिः । "अणविसंजोय" त्ति अनन्तानुबन्धिविसंयोजनायां चतुर्थी गुणश्रेणिः । “दसखवगे" त्ति पदैकदेशे पदप्रयोगदर्शनाद् दर्शनस्य-दर्शनमोहनीयस्य क्षपको दर्शनक्षपकस्तत्र तद्विषया पञ्चमी गुणश्रेणिः । चशब्दः समुच्चये । “मोहसम" त्ति मोहस्य-मोहनीयस्य शमः-शमक उपशमकः स चोपशमश्रेण्यारूढोऽनिवृत्तिवादरः सूक्ष्मसम्परायश्चाभिधीयते, तत्र मोहशमे षष्ठी गुणश्रेणिः । “संत" ति शान्तः-उपशान्तमोहगुणस्थानकवर्ती तत्र सप्तमी गुणश्रेणिः । “खवगि" त्ति क्षपकः-क्षपकश्रेण्यारूढोऽनिवृत्तिबादरः सूक्ष्मसम्परायश्च निगद्यते, तत्र क्षपकेऽष्टमी गुणश्रेणिः । “खीण" त्ति क्षीणः-क्षीणमोहस्तिस्य नवमी गुणश्रेणिः । “सजोगि" ति सयोगिकेवलिनो दशमी गुणश्रेणिः । “इयर' त्ति अयोगिकेवलिन एकादशी गुणश्रेणिरिति गाथाक्षरार्थः ।
___ भावार्थः पुनरयं-सम्यक्त्वलाभकाले मन्दविशुद्धिकत्वाद् जीवो दीर्घान्तमु हर्तवेद्यामल्पतरप्रदेशानां च गुणश्रेणिमारचयति । ततो देशविरतिलाभे सङ्खथे यगुणहीनान्तमुहूर्तवेद्यामसङ्घय यगुणप्रदेशाग्रां च तां करोति । ततः सर्वविरतिलाभे सङ्खये यगुणहीनान्तमुहर्तवेद्यामसङ्खये यगुणप्रदेशानां च तां करोति । ततोऽप्यनन्तानुबन्धिविसंयोजनायां सङ्घय यगुणहीनान्तमुहूतवेद्यामसङ्खये यगुणप्रदेशाग्रां च तां विदधाति । ततो दर्शनमोहनीयक्षपकः सङ्ख्य यगुणहीनान्तमुहूर्तवेद्यामसङ्खये यगुणप्रदेशाग्रां च तां निर्मापयति । ततोऽपि मोहशमकः सङ्ख्य यगुणहीनान्तमुहूर्तवेद्यामसङ्खये यगुणप्रदेशाग्रां च तां विरचयति । ततोऽप्युपशान्तमोहगुणस्थानकवर्ती सङ्खये यगुणहीनान्तमुहूर्तवेद्यामसङ्घय यगुणप्रदेशाग्रां च तां विरचयति । ततोऽपि क्षपकः सङ्घय यगुणहीनान्तमुहूर्तवेद्यामसङ्ख्य यगुणप्रदेशाग्रां च तां विरचयति । ततोऽपि क्षीणमोहः सङ्घय य. गुणहीनान्तमुहूर्तवेद्यामसङ्खये यगुणप्रदेशाग्रां च तां कुरुते । ततोऽपि सयोगिकेवली भगवान् सङ्ख्ययगुणहीनान्तमुहूर्तवेद्यामसङ्खये यगुणप्रदेशाग्रां च तां विधत्ते । ततोप्ययोगिकेवली परम
१ सं० १-२ त० मा० छ० "सम्म" ति ।।