________________
८१]
शतकनामा पञ्चमः कर्मग्रन्थः ।
तत्र सर्वस्तोकं जघन्यपदे प्रदेशाग्रं केवलज्ञानावरणस्य, ततो मनः पर्यवज्ञानावरणस्यानन्तगुणं, ततोऽवधिज्ञानावरणस्य विशेषाधिकं ततः श्रुतज्ञानावरणस्य विशेषाधिकं ततो मतिज्ञानावरणस्य विशेषाधिकम् । तथा दर्शनावरणस्य सर्वस्तोकं जघन्यपदे प्रदेशाग्रं निद्रायाः, ततः प्रचलाया विशेषाधिकं ततो निद्रानिद्राया विशेषाधिकं ततः प्रचलाप्रचलाया विशेषाधिकं ततः स्त्यानर्द्धेर्विशेषाधिकं, ततः केवलदर्शनावरणस्य विशेषाधिकं ततोऽवधिदर्शनावरणस्यानन्तगुणं, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकं ततश्चक्षुर्दर्शनावरणस्य विशेषाधिकम् । तथा मोहनीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरण क्रोधस्य विशेषाधिकं ततोऽप्रत्याख्यानाचरणमायाया विशेषाधिकं, ततोऽप्रत्याख्यानावरणलोभस्य विशेषाधिकम् । तत एवमेव प्रत्याख्यानावरणमान क्रोध- माया लोभा-ऽनन्तानुबन्धिमान- क्रोध-माया-लोभानां यथोत्तरं विशेषाधिकत्वं वक्तव्यम् । ततो मिथ्यात्वस्य विशेषाधिकम् । ततो जुगुप्साया अनन्तगुणम् । ततो भयस्य विशेषाधिकम् । ततो हास्य- शोकयोर्विशेपाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् । ततो रति-अरत्यो विशेषाधिकं, स्वस्थाने सु द्वयोरपि परस्परं तुल्यम् । ततोऽन्यतरवेदस्य विशेषाधिकम् । ततः संज्वलनमान - क्रोध- माया लोभानां यथोत्तर' विशेषाधिकम् । तथाऽऽपि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यङ् - मनुष्यायुषोः, स्वस्थाने तु परस्परं तुल्यम् । ततो देव-नारकायुषोरसङ्ख्ये यगुणं, स्वस्थाने तु परस्परं तुल्यम् । तथा नामकर्मणि गतौ सर्व स्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः, ततो मनुजगतेर्विशेषाधिकं ततो देवगतेरसङ्घयेयगुणं, ततो नरकगतेरसङ्ख्यं यगुणम् । तथा जातौ सर्वस्तोकं जघन्यपदे प्रदेशाग्रं चतुर्णां द्वीन्द्रियादिजातिनाम्नां तत एकेन्द्रियजातेर्विशेपाधिकम् । तथा शरीरनाम्नि, सर्वस्तोकमौदारिकशरीरनाम्नः, ततस्तैजसशरीरनाम्नो विशेषाधिकं ततः कार्मणशरीरनाम्नो विशेषाधिकं ततो वैक्रियशरीरनाम्नोऽसङ्ख्यगुणं, ततोऽप्याहारकशरीरनाम्नोऽसङ्ख्ये यगुणम् । एवं 'सङ्घातनाम्नोऽपि वाच्यम् । अङ्गोपाङ्गनाम्नि सर्वस्तोकं जघन्यपदे प्रदेशाग्र मौदारिकाङ्गोपाङ्गनाम्नः, ततो वैक्रियाङ्गोपाङ्गनाम्नोऽसङ्ख्यं यगुणं, ततोऽप्याहारकाङ्गोपाङ्गनाम्नोऽसङ्ख्ये यगुणम् । तथा सर्वस्तोकं जघन्यपदे प्रदेशाग्रं नरकगति-देवगत्यानुपूर्व्योः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्, ततो मनुजानुपूर्व्या विशेषाधिकं, ततस्तिर्यग्गत्यानुपूर्व्या विशेषाधिकम् । तथा सर्वस्तोकं वसनाम्नः, ततः स्थावरनाम्नो विशेषाधिकम् । एवं बादर - सूक्ष्मयोः पर्याप्ता - पर्याप्तयोः प्रत्येक साधारणयोश्च । शेषाणां तु नामप्रकृतीनामल्पबहुत्वं न विद्यते, तथा साता-सात वेदनीययोरुच्चैर्गोत्र - नीचैर्गोत्रयोरपि । अन्तराये पुनर्यथोत्कृष्टपदे तथैवावगन्तव्यमिति ॥ ८१ ॥
१ कर्मप्रकृतिटीकायां तु " सङ्घातननाम्नोऽ०" इत्येवंरूपः पाठः ।।
१०९