________________
१०८ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा हारिद्रवर्णनाम्नो विशेषाधिक, ततः शुक्लवर्णनाम्नो विशेषाधिकम् । तथा गन्धनाम्नि सर्वस्तोकं सुरभिगन्धनाम्नः, ततो दुरभिगन्धनाम्नो विशेषाधिकम् । तथा रसनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कटुरसनाम्नः, ततस्तिक्तरसनाम्नो विशेषाधिकं, ततः कषायरसनाम्नो विशेषाधिक, ततोऽम्लरसनाम्नो विशेषाधिकं, ततो मधुररसनानो विशेषाधिकम् । तथा स्पर्शनाम्नि सर्वस्तोकमत्कृष्टपदे प्रदेशानं कर्कश-गुरुस्पर्शनाम्नोः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मृदु-लघुम्पर्शनाम्नोविशेषाधिकम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो रूझ-शीतस्पर्शनाम्नोविशेषाधिकम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , नतः स्निग्ध-उष्णस्पर्शनाम्नोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् । तथाऽऽनुपूर्वीनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं देवगति नरकगत्यानुपूर्योः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मनुजगत्यानुपूर्व्या विशेषाधिक, ततस्तियेग्गत्यानुपूर्व्या विशेषाधिकम् । तथा विहायोगतिनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं प्रशस्तविहायोगतिनाम्नः, ततोऽप्रशस्तविहायोगतिनाम्नो विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । एवं बादर-सूक्ष्मयोः पर्याप्सा-ऽपर्याप्तयोः प्रत्येक-साधारणयोः स्थिरा-ऽस्थिरयोः शुभा-ऽशुभयोः सुभग-दुर्भगयोः सुस्वर-दुःस्वरयोरादेयाऽनादेययोयशःकीर्ति-अयशःकीयोर्वाच्यम् । आतप-उद्योतयोरुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु द्वयोरपि तुल्यम्* । निर्माण-उच्छ्वास-पराघात-उपघाता- गुरुलघु-तीर्थकराणां त्वल्पबहुत्वं नास्ति। __यत इदमल्पवहुत्वं सजातीयप्रकृत्यपेक्षया प्रतिपक्षप्रकृत्यपेक्षया वा चिन्त्यते, यथा कृष्णादिवर्णनाम्नः शेषवर्णापेक्षया, प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभग-दुर्भगयोः, न चैताः परस्परं सजातीया अभिन्नैकमूलपिण्डप्रकृत्यभावात् , नापि विरुद्धा युगपदपि बन्धसम्भवात् । तथा गोत्रे सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, तत उच्चैगोत्रस्य विशेषाधिकम् । तथाऽन्तरायकर्मणि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं दानान्तरायस्य, ततो लाभान्तरायस्य, विशेषाधिक, ततो भोगान्तरायस्य विशेषाधिक, तत उपभोगान्तरायस्य विशेषाधिक, ततो वीर्यान्तरायस्य विशेषाधिकम् ।
तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाग्राल्पबहुत्वम् । सम्प्रति जघन्यपदे तदभिधीयते--
१ यद्यपि * * एतत् फुल्लिकाद्वयमध्यवर्ती पाठोऽस्मत्समीपवर्तिषु एतद्ग्रन्थस्य समेष्वप्यादर्शषु एतादृश एव, परं ग्रन्थेऽत्र “कर्मप्रकृत्यभिप्रायेण दृश्यते” इत्युल्लेखे कृतेऽपि तया सह नैष संवादी । तत्स्थाने कर्मप्रकृती तु-"तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः ततो विशेषाधिकमपर्याप्तनाम्नः । एवं स्थिरा-ऽस्थिरयोः शुभाशुभयोः सुभग-दुर्भगयोरादेया-ऽनादेययोः सूक्ष्म-बादरयोः प्रत्येक साधारणयोर्वाच्यम् । तथा सर्वस्तोकमयशःकीर्तिनाम्नः प्रदेशाग्रम् , ततो यशःकीर्तिनाम्नः संख्येयगुणम्। शेषाणामातप-उद्योत-प्रशस्ता-ऽप्रशस्तविहायोगतिसुस्वरदुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम्। निर्मा० " एवंरूपः पाठो दृश्यते ।।