SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ११६ ] देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा 'उको ससत्तरत्ताणं संस' संनिचिए भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहिजा नो वाऊ हरिजा नो कुच्छिजा नो विद्धसिजा नो पूत्ताए हव्वमागच्छिज्जा, तओ चैव णं समए समए एगमेगं वालग्गमवहाय जावइएणं कालेणं से पल्ले खीखे नीरए नीट्ठिए निल्लेवे भवइ' से तं वावहारिए उद्धारपलिओ मे । "एएस पलाणं, कोडाकोडी हविज्ज दसगुणिया । उद्धारसागरस्स उ, एगस्स भवे परीमाणं ॥ १ reft वावहारिहिं उद्धारपलिओवमसागरोव मेहिं किं पओयणं ? नत्थि किंचि पओयणं, केवलं पन्नवइज्जइ ( अनुयो० पत्र १८० - १-२ ) इति । उक्तं बादरमुद्धारपल्योपमम् । अथ सूक्ष्मं तद् उच्यते - तत्रैकैकं वालाग्रमसङ्ख्ये यानि खण्डानि कृत्वा पूर्ववत् पल्यो भ्रियते तानि च खण्डानि द्रव्यतः प्रत्येकमत्यन्तशुद्धलोचनच्छअथ यदतीवसूक्ष्मं पुद्गलद्रव्यं चक्षुषा न पश्यति तदसङ्ख्ये य भागमात्राणि । क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्घये यगुणानि, बादरपर्याप्तपृथ्वीकायिकशरीरतुल्यानीति वृद्धाः । एषां च वालाग्राणामसङ्ख्ये यत्वात् प्रतिसमयमुद्धारे किल सङ्ख्ये या वर्ष कोट्योऽतिक्रामन्ति, अतः सङ्ख्ये वर्ष कोटिमानमिदं सूक्ष्ममुद्धारपल्योपममव सेयम् । तदशकोटिकोटयः सूक्ष्मोद्धारसा - परोपमम् । आभ्यां पल्योपम-सागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते । उक्तं चानुयोगद्वारेषु एहिं हमउद्धारपलिओ वमसागरोवमेहिं किं पओयणं ९ एएहिं दीवसमुद्दाणं उद्धारे विष्पइ । केवइया णं भंते ! दीवसमुद्दा उद्धारेणं पन्नत्ता ? गोयमा ! जावइया णं अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवइया णं दीवसमुद्दा उद्धारेणं पन्नत्ता ॥ ( पत्र १८१ - १ ) भाष्यसुधाम्भोनिधिरप्याह- १ यावदुत्कृष्टसप्तरात्रैः संसृष्टः संनिचितो भृतः वालाग्र कोटिभिः, तानि च वालाप्राणि नाग्निर्दहेद् न वायुर्ह - रेनोकोथयेयुः न विश्वस्येयुः न पूतित्वेन शीघ्रमागच्छेयुः, ततश्व खलु समये समय एकैकं वालाग्रम' पहरता यावता कालेनासौ पल्यः क्षीणो नीरजा निष्ठितो निर्लेपश्च भवति तदिदं व्यावहारिकं उद्धारपल्योमम् ॥ २ सं० १-२ छा० त० म० ०इ से तं वा० एवमग्रेऽपि ।। ३ एतेषां पल्यानां कोटाकोटीभवेद्दशगुणिता । उद्धारसागरस्य त्वेकस्य भवेत् परिमाणम् । ४ एताभ्यां व्यावहारिकाभ्यामुद्धारपल्योपमसागरो - पसाभ्यां किं प्रयोजनम् ? नास्ति किञ्चित् प्रयोजनं केवलं प्रज्ञाप्यते ॥ ५ सं० १-२ छा० त० म० इज्जा ॥ ६ एताभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां किं प्रयोजनम् ? एताभ्यां द्वीपसमुद्राणामुद्धारो गृह्यते । कियन्तो भदन्त ! द्वीप समुद्रा उद्धारेण प्रज्ञप्ताः ? गौतम ! यावतामर्ध तृतीयानामुद्धारसागरोपमाणां उद्धारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy