________________
७-८१]
शतकनामा पञ्चमः कर्मग्रन्थः ।
१०३
ननु स्थित्यनुरोधेन भागो भवन्नायुषः सकाशाद् नाम-गोत्रयोर्भागः सङ्ख्यातगुणः प्राप्नोति तत किमित्युक्तं विशेषाधिक इति ? सत्यमेतत् किन्तु सर्वोऽपि नरकगत्यादिकर्मकलाप आयुष्कोदयमूलः, तदुदय एव तस्योदयात्, अत आयुष्कं प्रधानत्वाद् बहुपुद्गलद्रव्यं लभते । यद्येवं तदपेक्षयाऽप्रधानत्वाद् नाम-गोत्रयोर्भागस्य विशेषाधिकत्वमयुक्तमिति, सत्यमेतत्, किन्तु नाम-गोत्रे सततबन्धिनी, ततस्तदपेक्षया बहुद्रव्यमाप्नुतः, आयुष्कं तु कादाचित्कबन्धबादल्पद्रव्यमाप्नोति । इदमुक्तं भवति-स्थित्यनुसारेण सङ्ख्यातगुणहीनताप्राप्तावपि शेषकर्मोदयाक्षेपकत्वेन प्रधानत्वाद् नाम-गोत्रापेक्षया किश्चिदूनमेव भागमायुष्कं लभते, नाम-गोत्रे त्वप्रधानतया हीनताप्राप्तावपि सततबन्धित्वादायुष्कापेक्षया विशेषाधिकमेव भागं लभेते । ननु तथापि ज्ञानावरणाद्यपेक्षया मोहनीयस्य सङ्ख्यातगुणो भागः प्राप्नोति, तत्स्थितेर्ज्ञानावरणीयादिस्थित्यपेक्षया सङ्ख्यातगुणत्वात्, अतः कथं विशेषाधिक उक्तः ? सत्यम् , दर्शनमोहनीयलक्षणाया एकस्या एव मिथ्यात्वप्रकृतेः सप्ततिसागरोपमकोटीकोटीलक्षणा स्थितिरुक्ता, चारित्रमोहनीयस्य तु कषायलक्षणस्य चत्वारिंशत्सागरोपमकोटीकोटीलक्षणेव स्थितिः, अतस्तदनुसारेण विशेषाधिक एव तद्भाग उक्तो न तु सङ्ख्यातगुणः । दर्शनमोहनीयद्रव्यं तु सर्वमेव चारित्रमोहनीयदलिकात सर्वघातित्वेनानन्तभाग एव वर्तत इति न किञ्चित् तेन वर्धत इति । युक्तिमात्रं चेतत् , निश्चयतस्तु श्रीसर्वज्ञवचनप्रामाण्यादेवातीन्द्रियार्थप्रतिपत्तिः । भवत्वेवम् तथाप्येकस्मिन् समये गृहीतद्रव्यस्य कथमष्टधा परिणामः ? कथं चैवं भागविकल्पना ? इति चेद् उच्यते- अचिन्त्यत्वाज्जीवशक्तेविचित्रत्वाच्च पुद्गलपरिणामस्य जीवव्यतिरिक्तानामपि ह्यभ्र न्द्रधनुरादिपुद्गलानां विचित्रा परिणतिरवलोक्यते किमुत जीवपरिगृहीतानाम् ? इत्यलं विस्तरेणेति ।। ८० ॥
कृता मूलप्रकृतीनां भागप्ररूपणा । साम्प्रतमुत्तरप्रकृतीनां भागप्ररूपणां चिकीर्ष राहनियजाइलडदलियाणंतंसो होइ सव्वघाईणं । बझंतीण विभजइ, सेसं सेसाण पहसमयं ।। ८१ ।।
यका यकाः प्रकृतयो यस्यां यस्यां मूलप्रकृतौ पठिता विद्यन्ते तासां सैव प्रकृतिर्निजजातिर्विज्ञेया । तया तया निजनिजमूलप्रकृतिरूपया निजजात्या यद् लब्धं-प्राप्तं दलिकाग्रं, तस्य योऽनन्तांशः अनन्तभागः सर्वघातिरसयुक्तः, स एव 'सर्वघातिनीनां' प्रकृतीनां केवलज्ञानावरण-केवलदर्शनावरण-निद्रापञ्चक-मिथ्यात्व-संज्वलनवर्जद्वादशकषायलक्षणानां विंशतिसङ्ख्यानामपि भवति' जायते । काऽत्र युक्तिः ? इति चेद् उच्यते-इहाष्टानामपि मूलप्रकृतीनां प्रत्येक ये स्निग्धतराः परमाणवस्ते स्तोकाः, ते च स्वस्वमूलप्रकृतिपरमाणनामनन्ततमो भागः, त एव च सर्वघातिप्रकृतियोग्याः । तस्मिश्चानन्ततमे भागे सर्वघातिरसयुक्तेऽपसारिते शेषस्य दलिकस्य