________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
जन्तुना यदेकेनाध्यवसायेन' विचित्रतागर्भेग गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य सप्त भागाः, षड्विधयन्धकस्य षड् भागाः, एकविधबन्धकस्यैको भागः । तत्र यदाऽऽयुबन्धकालेऽष्टविधबन्धको जन्तुर्भवति तदा शेषकर्मस्थित्यपेक्षयाऽऽयुपोऽल्पस्थितित्वेन गृहीतस्य तस्यानन्तस्कन्धात्मक कर्मद्रव्यस्यांश::-भागः सर्वस्तोकः : आयुष्करूपतया परिणमति, ततो नाम्नि गोत्रे च तुल्यस्थितित्वेन स्वस्थाने द्वयोरपि भागः समः, तत आयुष्क भागात 'अधिकः ' विशेषाधिक इति ॥ ७६ ॥
१०२
fararवरणे मोहे, सव्वोवरि वेयणीये जेणये ।
तस्स फुडत्तं न हवइ, ठिईविसेसेण सेसाणं ॥। ८० ।। विघ्नस्य - अन्तरायस्य आवरणयोः - ज्ञानावरण-द -दर्शनावरणयोर्भागः समः, स्वस्थाने त्रयाणामपि तुल्यस्थितिकत्वात् नाम - गोत्रापेक्षया त्वधिकः, विशेषाधिक इत्यर्थः । ततोऽन्तरायज्ञानावरण- दर्शनावरणभागाद् 'मोहे' मोहनीये भागः 'अधिकः' विशेषाधिकः । ननु तर्हि वेदनीयस्य रूपो भागो भवति ? इत्याह- 'सर्वोपरि ' वेदनीये सर्वकर्मभागोपरिष्टाद् विशेषाधिको भागो भवति । इदमुक्तं भवति-शेषकर्मापेक्षया तावद् मोहनीयस्योपरि भाग उक्तः, वेदनीयस्य पुनर्मोहनीय भागादपि सकाशाद् उपवेवभागः । अत्र विनेयः पृच्छति किं पुनरिह कारणं येनोFarari भागाधिक्यं भवति ? इति अत्र वेदनीयस्य तावत् भागाधिक्ये कारणमाह" तस्स फुडतं न हवइ" त्ति 'येन' कारणेन 'अल्पे' स्तोके दलिके सति 'तस्य' वेदनीयस्य कर्मणः 'स्फुटत्वं' सुख-दुःखानुभवनव्यक्तिरिति यावत् 'न' नैव 'भवति' जायते । एतदुक्तं भवतिसुख-दुःखजननस्वभावं वेदनीयं कर्ण, तद्भावपरिणताथ पुद्गलाः स्वभावात् प्रचुरा एव सन्तः स्वकार्य सुख-दुःखरूपं व्यक्तीकत्तु समर्थाः, शेपकर्मपुङ्गलाः पुनः स्वल्पा अपि स्वकार्य निष्णादयन्ति । दृश्यते च पुद्गलानां स्वकार्यजननेऽल्पबहुत्वकृतं सामर्थ्यवैचित्र्यम् । यथा हि वृष्ट्यादिकदर्शनं वहुतरमुपभुक्तं तृप्तिलक्षणं स्वकार्यमातनोति, मृद्वीकादिकं स्वल्पमपि भुक्तं - कल्पयति यथा विषं स्वल्पमपि मारणादिकार्यं साधयति, लेष्टुकादिकं तु प्रचुरमिति, एवमिहापि उपनयः कार्यः । तस्मात् प्रभूता वेदनीयपुङ्गलाः सुख-दुःखे साधयन्तीति सुख-दुःखस्फुटत्वकारणाद् वेदनीयस्य महान् भाग इति स्थितम् । शेषकर्मणां भागस्य हीनाधिकत्वे कारणमाह"ठिईविसेसेण सेसाणं" ति वेदनीयात् शेषकर्मणागायुकादीनां भागस्य हीनत्वाधिक्यं वा विज्ञेयम् । केन ? इत्याह--स्थितिविशेषेण हेतुभूतेन, यस्य नाम - गोत्रादेरायुष्काद्यपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान्, यस्य त्वसौ हीना तस्य सोऽपि हीन इति भावः ।
१ सं० १-२ - त० म० छ०० न चित्र । २ सं १-२ त० म० छा० व्यणीइ जे० ॥
,