________________
७८-७ शतकनामा पञ्चमः कर्मग्रन्थः ।
१०१ लस्य रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवानन्तगुणान् भागान् प्रयच्छति । ते च भागा अतिसूक्ष्मतयाऽपरभागाभावान्निरंशा अंशा रसाणव इत्युच्यन्ते । रसाणको रसविभागा रसपलिच्छेदा भावपरमाणय इति पर्यायाः । ते च रसाणवः प्रतिस्कन्धं सर्वकर्मपरमाणुषु सर्वजीवानन्तगुणा विद्यन्ते, तेश्चैवंविधै रसाणुभियुक्तं परिगतं कर्मस्कन्धदलिकं जीवो गृह्णातीति । एतदुक्तं भवतिनिम्बेक्षुरसायधिश्रयणैस्तण्डुलेषु प्रत्येकं यथा रसविशेष तत्तद्रूपं पक्ता जनयति, तथा अनुभागबन्धाध्यवसायः सर्वस्कन्धेष्वभव्यानन्तगुणकर्मप्रदेशनिष्पन्नेषु प्रतिपरमाणु सर्वजीवेभ्योऽनन्तगुणान् रसविभागपलिच्छेदान् जीवो जनयतीति । तथा "अणतयपएसं" ति अनन्ता अभव्यानन्तगुणाः सिद्धेभ्योऽनन्तगुणहीनाः प्रदेशाः पुगला यत्र तदनन्तप्रदेशम् । इदमुक्तं भवति-- अभव्येभ्योऽनन्तगुणैः सिद्धेभ्योऽनन्तगुणहीनः परमाणुभिनिष्पभमेकैकं कर्मस्कन्धं गृह्णाति, तानपि स्कन्धान प्रतिसमयमभव्येभ्योऽनन्तगुणान् सिद्धानामनन्तभागवर्तिन एव गणातीति ॥ ७८॥
एगपएसोगा, नियसव्वपएसओ गहेइ जिओ।
थेवो आउ तदंसो, नामे गोए समो अहिओ ॥७६।। एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढं-येष्वाकाशप्रदेशेषु जीवोऽवगाढस्तेष्वेव यत कर्मपुद्गलद्रव्यं तद् रागादिस्नेहगुणयोगाद् आत्मनि लगति । यदाह वाचकमुख्यः
स्नेहाभ्यक्तशरीरस्य, रेणुना श्लिप्यते यथा गात्रम् ।
रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ।। ( प्रशम० का० ५५) न त्वनन्तरपरम्परप्रदेशावगाढम् , भिन्नदेशस्थस्य कर्मपुद्गलद्रव्यस्य ग्राह्यत्वपरिणामाभावात् । यथा हि दहनः स्वप्रदेशस्थितान् योग्यपुद्गलानात्मभावेन परिणमयति इत्येवं जीवोऽपि स्वक्षेत्रस्थमेव द्रव्यमादत्तं न त्वनन्तरपरम्परप्रदेशस्थम् । एतच द्रव्यं गृह्यमाणं जीवेन नैकेन प्रदेशेन न द्वयादिभिर्वा प्रदेशेः किन्तु सर्वेरप्यात्मीयप्रदेशेरित्येतदेवाह--निजा:--आत्मीयाः सर्व-समस्ताः प्रदेशा निजसर्वप्रदेशास्तैर्निजसर्वप्रदेशतः, आद्यादेराकृतिगणत्वात् तस्प्रत्ययः, निजसर्वप्रदेशैः कर्मस्कन्धदलिकं गृलातीत्यर्थः, बीवप्रदेशानां सर्वेषामपि श्रृङ्खलावयवानामिव परस्परं संबन्धविशेषभावात् । तथाहि-एकस्य जीवस्य समस्तलोकाकाशप्रदेशराशिप्रमाणाः प्रदेशा वर्तन्ते, मिथ्यात्वादिबन्धकारणोदये च सति एकस्मिन् जीवप्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वेऽप्यात्मपदेशा अनन्तरपरम्परलया तद्रव्यग्रहणाय व्याप्रियन्तेः यथा हस्ताग्रेण कस्मिंश्चिद् बाये घटादिके गृह्यमाणे मणिबन्ध कूपरांऽसादयोऽपि तद्ग्रहणायाऽनन्तरपरम्परतया व्याप्रियन्त इति । अथैवमेकाध्यवसायगृहीतकर्मपुद्गलद्रव्यस्य यस्मिन् कर्मणि यावन्मात्रो भागो भवति इत्येतदभिधित्सुराह- "थेवो आउ तदंसो" त्ति इहाष्टविधबन्धकेन