________________
१००
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
अमीषां चतुर्णां स्पर्शानां मध्यात् कोऽपि परमाणुः केनाप्यविरुद्धेन स्पर्शद्वयेन संयुक्तस्तत्र विद्यते । तथाहि — स्निग्ध-उष्णस्पर्शद्वितयोपेतः कश्चित् परमाणुस्तत्र भवति, कश्चन रूक्ष - शीतस्पर्शद्वययुक्तः परमाणुः कश्चिच्च स्निग्ध शीतस्पर्शद्वयोपेतः, कश्चित्तु रूक्ष-उष्णस्पर्शद्वयसमन्वित इति । अतः स्कन्धद्रव्यमभव्यानन्तगुणपरमाणुनिर्वृतं सिद्धानन्तभागवर्तिपरमाणु कलितमविरुद्धस्पर्शद्वयोपेतपरमाणसहिततया चतुःस्पर्शसम्पन्नं सङ्गच्छत एव । गुरु-लघु-मृदु-कठिनस्पर्शवन्तथ ये परमाणवस्ते कर्मस्कन्धद्रव्ये न भवन्तीति । एतच्च प्रज्ञप्ति - कर्मप्रकृत्याद्यभिप्रायेणोक्तम् । बृहच्छतकटीकायां तु "मृदु लघुलक्षणं स्पर्शद्वयं तावदवस्थितं भवति, अपरौ च स्निग्ध-उष्ण स्निग्ध-शीतौ वा, रूक्ष - उष्णौ रूक्ष- शीतौ वा, द्वावविरुद्धा भवतः " ( पत्र १०४-१ ) इति चतुःस्पर्शोक्तिरुक्ता । तथा द्वौ सुरभि दुरभिलक्षणौ गन्धौ यस्य तद् द्विगन्धम् । पञ्चशब्दस्य प्रत्येकं सम्बन्धात् पञ्चेति पञ्चसङ्ख्या वर्णाः कृष्ण-नील- लोहित-हारिद्र शुक्ललक्षणा यस्य तत् पञ्चवर्णम् । पश्च रसाः- तिक्त कटुक-कपाया ऽम्ल-मधुरस्वरूपा यस्य तत् पश्चरसम् । कार्मणवर्गणाप्रधानाः स्कन्धाः कर्मस्कन्धाः, त एव यथास्वकालं दलनाद् विशरारुभवनात् "दल त्रिफला विशरणे" ( सिद्धहेमधा० पा० २२२ ) इति वचनात्, दलं- दलिकं कर्मस्कन्धदलम् । ततोऽन्तिमचतुःस्पर्शं च तद् द्विगन्धं चान्तिमचतुःस्पर्शद्विगन्धम्, अन्तिमचतुःस्पर्शद्विगन्धं च तत् पञ्चवर्णं चान्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णम्, अन्तिमचतुःस्पर्शद्विगन्धपश्चवर्णं च तत् पश्चरसं चान्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपञ्चरसम् अन्तिम चतुःस्पर्शद्विगन्धपञ्चवर्णपश्चरसं च तत् कर्मस्कन्धदलं चान्तिमचतुःस्पर्शद्विगन्धपञ्चवर्णपञ्चरसकर्मस्कन्धदलम् । इह स्कन्धग्रहणेनैतत् सूचयति— ये कन्धास्त एव चतुःस्पर्शवन्तो जीवेन गृह्यन्ते, औदारिक - वैक्रिया -ऽऽहारकशरीरयोग्यास्तु स्कन्धा अष्टस्पर्शा एव गृल्यन्ते इति, तैजसाद्याथ ये ग्रहणप्रायोग्यास्तेऽपि सर्वे चतुःस्पर्शवन्त एव जीवेन गृह्यन्त इति मन्तव्यम् । वर्ण- गन्ध-रसाः पुनरौदारिकादीनां सर्वेषामपि स्कन्धानां aritaHाणा एव भवन्ति । उक्तं च-
'पंचरसपंचवन्नेहिं परिणया अड फास दो गंधा |
जावाहारगजोगा, चउफासविसेसिया उवरिं ॥ ( पश्चसं० गा० ४१० ) आहारकस्कन्धेभ्य उपरितनास्तैजसाद्याः स्कन्धा ग्रहणप्रायोग्याः सर्वे चतुःस्पर्शा भवन्तीत्यर्थः । तथा सर्वजीवेभ्योऽनन्तो गुणो येषां ते सर्वजीवानन्तगुणाः, रस्यते – विपाकानुभवनेन आस्वाद्यत इति रसः - अनुभागस्तस्याणवः अंशा रसाणवः, सर्वजीवानन्तगुणाश्च ते रसाणवश्च सर्व जीवानन्तगुणरसाणवतैयुक्तं - समन्वितम् । इदमत्र हृदयम् - इह सर्वजघन्यस्यापि पु
१ पञ्चरस पञ्चवर्णैः परिणता अष्ट स्पर्शा द्वौ गन्धौ । यावदाहारकयोग्याश्चतुःस्पर्शविशेषिता उपरि ॥