________________
७६-७८ ]
शतकनामा पञ्चमः कर्मग्रन्थः । न्तोऽश:-भागो यासां ताः सिद्धानन्तांशाः-सिद्धानन्तभागवर्तिन्यः, उपलक्षणत्वाद् अभव्यानन्तगुणाः । आसामाधारनिरूपणायाह-'अन्तरेषु अन्तरालेप्यौदारिक क्रियादिवर्गणामध्येष्वित्यर्थः, 'अग्रहणाः' अग्रहणवर्गणाः । एतदुक्तं भवति-निजनिजजघन्याग्रहणवर्गणैकस्कन्धे ये परमाणवस्तेऽभव्यराशिप्रमाणेनानन्तकेन गुणिता यावन्तो भवन्ति तावत्योऽग्रहणवर्गणा एकैकपरमाणुवृद्धा अन्तरेषु मन्तव्याः। अधुना ग्रहणयोग्यवर्गणासु निजनिजजघन्यवर्गणायाःसकाशात् स्वस्वोत्कृष्टवर्गणायां यावन्मात्राधिकत्वं तदाह-"सव्वत्थ जहन्नुचिया नियणंतसाहिया जिट्ठा" 'सर्वत्र' सर्वाम्बप्यौदारिक-बक्रिया-ऽऽहारक तेजस-भाषा-ऽऽनापान-मनः-कार्मणवर्गणासु जघन्या चासावुचिता च-योग्या च जघन्योचिता योग्यजघन्येत्यर्थः, तस्याः सकाशात् , प्राकृतत्वात् पञ्चम्येकवचनस्य लुप् , निजेन- 'स्वकीयेनानन्तांशेन-अनन्तभागेनाधिका-समर्गला भवति । काऽसौ ? इत्याह-'ज्येष्ठा' उत्कृष्टा । किमुक्तं भवति ?-औदारिकजघन्यग्रहणवर्गणारम्भकस्कन्धस्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषेणोत्कृष्टवर्गणारम्भक एकैकस्कन्धोऽधिको मन्तव्यः । अत एवानन्तभागलब्धपरमाणुनामनन्तत्वेनैकैकपरमाणुवृद्धया जायमाना जघन्योत्कृष्टान्तरालवर्तिन्य औदारिकवर्गणा अप्यनन्ताः सिद्धा भवन्ति । एवं वैक्रियाऽऽहारक-तैजस-भाषा-ऽऽनापान मनः कार्मणवर्गणास्वपि ग्रहणप्रायोग्यासु निजनिजजघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे येऽनन्तपरमाणवस्तावन्मात्रेणानन्तभागेन स्वस्वोत्कृष्टवर्गणारम्भक एकैकः स्कन्धोऽधिको वाच्यः, तस्य चानन्तभागस्यानन्तपरमाणुमयत्वेनैकैकपरमाणुवृद्धाः सर्वग्रहणवर्गणा अप्यनन्ता अवसेयाः, केवलमुत्तरोत्तरवर्गणास्कन्धानामनन्तगुणपरमारगुपचितत्वेनानन्तभागोऽप्युत्तरोत्तरानुप्रवृद्ध-प्रवृद्धतरप्रवृद्धतमादिभेदेन नानाविधो दृश्य इति ॥७७॥ अथ यादृशं कर्मस्कन्धदलिकं जीवो गृह्णाति तदाह--
अंतिमचउफासदुगंधपंचवन्नरसकम्मखंधदलं ।
सव्वजियणंतगुणरसमणुजुत्तमणतयपएसं ।। ७८ ॥ जीवः कांस्कन्धदलं गृह्णातीत्युत्तरगाथायां सम्बन्धः । तत्र "अंतिम" ति अन्ते भवा अन्तिमाः “पश्चादाद्यन्ताग्रादिमः" ( सिद्ध० ६-३-७५) इतीमप्रत्ययः, अन्त्याः -पर्यन्तवर्तिनः, अन्तिमत्वं च "फासा गुरुलहुमिउखरसीउण्हसिणिद्धरुपनऽ?" ( मा० ४०) इति कर्मविपाकसूत्रप्रतिपादितक्रममाश्रित्य ज्ञेयम् । चत्वारः-चतुःसङ्ख्याः स्पर्शाः-शीत-उष्ण-स्निग्ध रूक्षलक्षणा यस्य कर्मस्कन्धदलस्य-कर्मस्कन्धद्रव्यस्येत्यर्थः, तदन्तिमचतुःस्पर्शम् । अयमत्राशयः
१ सं ० २ त छा० 'न स्वकीयेना' ।। २ सं० १-२ रासु' प्र० ॥ ३ स्पर्शा गुरुलघुमदुः खरः शीत उष्णः स्निग्धो रूक्ष इत्यष्टौ ।।