________________
१८
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा एवमेता औदारिकाद्याः कार्मणवर्गणावसाना वर्गणाः प्ररूपिताः । इत ऊर्ध्वमन्यत्र कर्मप्रकृन्यादिष्वन्या अपि ध्रुवा-चित्ताद्या वर्गणा निरूपिताः, ताश्चेहानुपयोगित्वेन नोक्ताः, तत एवावसेयाः, संदेपरुचिसत्त्वानुग्रहार्थत्वात् प्रस्तुतप्रारम्भस्येति ।
उक्ता वर्गणाः, एताश्च बहुतरपरमाणुनिचयरूपा अभिहिताः, अतः कियन्मानं क्षेत्रं ता व्याप्नुवन्ति ? इत्याह-"सुहुमा कमा" इत्यादि । एता औदारिकाद्या वर्गणाः ‘क्रमात्' क्रमेणउत्तरोत्तरपरिपाटया सूक्ष्मा ज्ञातव्याः । अयमर्थ:--प्रथममग्रहणवर्गणा औदारिकस्य सूक्ष्माः, ततस्तस्येव ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्येवाग्रहणवर्गणाः सूक्ष्माः । ततो वैक्रियस्य ग्रहणवर्गणाः सूक्ष्माः, ततस्तस्यैवाग्रहणवर्गणाः सूक्ष्माः । तत आहारकग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः । ततस्तैजसग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः । ततो भायाग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः । तत आनापानग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः । ततो मनोग्रहणवर्गणाः सूक्ष्माः, ततस्तदग्रहणवर्गणाः सूक्ष्माः । ततः कार्मणग्रहणवर्गणाः सूक्ष्मा इति । "अवगाहो ऊरणूणंगुलअसंखंसु" त्ति अवगाहन्ते-अवस्थानं कुर्वन्ति वर्गणा यस्मिन् असावगाहः-अवस्थानक्षेत्रम् , स च कियन्मात्रः ? इत्याह-'ऊनोनागुलासङ्ख्येयांशः' न्यूनः न्यूनतरोऽङ्गुलस्यासङ्खये यांशः-अङ्गुलासङ्ख्य यभागो यत्र स तथा । एतदुक्तं भवति-पुद्गलद्रव्याणां हि यथा यथो प्रभूतपरमाणुनिचयः सम्पद्यते तथा तथा सूक्ष्मः सूक्ष्मतरः परिणामः सञ्जायते, तत औदारिकवर्गणास्कन्धानामवगाहनाऽङ्गुलासङ्घयभागः, स एव तदग्रहणवर्गणानां न्यूनः स एव वैक्रियग्रहणवर्गणानां न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः, आहारकग्रहणवर्गणानां स एव न्यूनः; तदग्रहणवर्गणानां स एव न्यूनः, तेजसग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः भाषाग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः, आनापानग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः; मनोग्रहणवर्गणानां स एव न्यूनः, तदग्रहणवर्गणानां स एव न्यूनः कार्मणग्रहणवर्गणानां स एवामुलासङ्खये यभागो न्यूनतर इति ।। ७६ ॥
उक्तं वर्गणानां स्वरूपमवगाहक्षेत्रमानं च । अधुनकादिवृद्धया वर्धमानानामग्रहणवर्गणानां परिमाणनिरूपणायाह
___ इक्विक्कहिया सिद्धाणतंसा अंतरेसु अग्गहणा ।
सव्वत्थ जहन्नुचिया, नियणंतसाहिया जिट्ठा ॥ ७७ ॥ एकैकः परमाणुः प्रतिस्कन्धमधिकः-उत्तरप्रवृद्धो यासु ता एकैकाधिका एकैकपरमाणुवृद्धा इत्यर्थः, अग्रहणवर्गणा भवन्तीति योगः । कियत्यः ? इत्याह--'सिद्धानन्तांशाः सिद्धानामन