________________
१०४ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा देशघातिरसोपेतस्य का वार्ता ? इत्याह-'यभंतीण विभज्जई" इत्यादि । बध्यमानानां न त्ववध्यमानानां 'विभज्यते' विभागीक्रियते, विभज्य विभज्य दीयत इत्यर्थः । 'शेष' सर्वघातिप्रकृत्यनन्तभागावशिष्टं प्रदेशाग्रं, कासां बध्यमानानां विभज्यते ? इत्याह-'शेषाणा' 'सर्वघातिप्रकृत्यवशिष्टानां स्वजातिप्रकृतीनाम् , कथम् ? इत्याह-'प्रतिसमयं' प्रतिक्षणम् , बन्धन-विभजनक्रिययोरुभयोरपि क्रियाविशेषणमिदं योजनीयम् ।
अयमत्र तात्पर्यार्थः-इह ज्ञानावरणस्य पञ्च तावदुत्तम्प्रकृतयः, तासु चैका केवलज्ञानावरणलक्षणा सर्वघातिनी, शेषाश्चतस्रो देशघातिन्यः । तत्र ज्ञानावरणस्य भागे यद् दलिकमायाति तस्य यद् अनन्तभागवर्ति सर्वघातिरसोपेतं द्रव्यं तत् केवलज्ञानावरणस्यैव भागतया परिणमति । शेपं तु देशघातिरसोपेतं द्रव्यं चतुर्धा विभज्यते, तच्च मतिज्ञानावरण-श्रुतज्ञानावरणा-ऽवधिज्ञानावरण-मनःपर्यायज्ञानावरणेभ्यो दीयते । दर्शनावरणस्य च नव उत्तरप्रकृतयः, तासु च केवलदर्शनावरणं निद्रापञ्चकं चेति षट् सर्वघातिन्यः, शेषास्तिस्रो देशघातिन्यः । तत्र दर्शनावरणस्य भागे यद् द्रव्यमागच्छति तस्य मध्ये यत् सर्वघातिरसोपेतमनन्ततमभागवर्ति द्रव्यं तत् षड्भिर्भागभूत्वा सर्वघातिप्रकृतिषटकरूपतयैव परिणमति, शेपं तु देशघातिरसयुक्तं द्रव्यं शेषप्रकृतित्रयभागरूपतयेति । वेदनीयस्य पुनः सातरूपाऽसातरूपा वेकेव प्रकृतिरेकदा बध्यते, न युगपदुमे अपि, साता-ऽसातयोः परस्परं विरोधात् , अतो वेदनीयभागलब्धं द्रव्यमेकस्या एव बध्यमानायाः प्रकृतेः सर्व भवति । मोहनीयस्य स्थित्यनुसारेण यो मूलभाग आभजति तस्यानन्ततमो भागः सर्वघातिप्रकृतियोग्यो द्वेधा क्रियते, अर्ध दर्शनमोहनीयस्य अर्थ चारित्रमोहनीयस्य । तत्रार्ध दर्शनमोहनीयसत्कं समग्रमपि मिथ्यात्वमोहनीयस्य ढोकते । चारित्रमोहनीयस्य तु सत्कमधं द्वादशधा क्रियते, ते च द्वादश भागा आयेभ्यो द्वादशकषायेभ्यो दीयन्ते, स्वस्थाने तु कषायद्वादशकस्यापि तुल्यम् , शेषं तु देशघातिरससमन्वितं द्रव्यं द्विधा क्रियते, तत्रैको भागः कषायमोहनीयस्य, द्वितीयो नोकषायमोहनीयस्य । तत्र कषायमोहनीयस्य भागश्चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः संज्वलनक्रोध-मान-माया-लोभानां दीयन्ते। नोकषायमोहनीयस्य पुनर्भागः पञ्चधा क्रियते ते च पश्चापि भागा यथाक्रमं त्रयाणां वेदाना. मन्यस्मै वेदाय बध्यमानाय, हास्य-रतियुगला-ऽरति-शोकयुगलयोरन्यतरस्मै युगलाय, भय-जुगुप्साभ्यां च दीयन्ते, नान्येभ्यः, बन्धाभावात् । न हि नवापि नोकषाया युगपद् बन्धमायान्ति, किन्तु यथोक्ताः पञ्चैव । आयुषस्तु भागे यद् द्रव्यमागच्छति तत् सर्वमेकस्या एव बध्यमानप्रकृतेर्भवति, यत आयुष एकस्मिन् काले एकैव प्रकृतिर्वध्यत इति । नामकर्मणो भागभावना कर्मप्रकृत्यभिप्रायेण दयते । तत्रेयं गाथा