________________
देवेन्द्रसूरिविरचितः स्वोपनटीकोपेतः
[ गाथा तथा आनापानः-उच्छ्वासनिःश्वासः । तथा मन्यते-चिन्त्यते वस्त्वनेनेति मनः। तथा कर्मणानामकर्मोत्तरप्रकृत्या निवृत्तं कार्पणम् , ज्ञानावरणीयाद्यष्टविधकर्मस्वप्रायोग्यपुद्गलानां गृहीतानां तत्तद्रूपेण परिणामजनकमित्यर्थः । ततो वैक्रियादिनिष्पत्तियोग्याः पुद्गलवर्गणा अपि वैक्रियादिशब्दैः प्रोच्यन्ते, यावद् जानावरणाद्यष्टविधकर्मपरिणामहेतुकं दलिकमपि कार्मणवर्गणेति । ततश्च वैक्रियं चाहारकं च तैजसं च भाषा चानापानश्च मनश्च कार्मणं चेति समाहारद्वन्द्वस्तस्मिन् वैक्रिया ऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः कार्मणे । एता क्रियाद्या वर्गणा अग्रहणवर्गणान्तरिता भवन्तीत्यक्षरार्थः ।
भावार्थस्त्वयम्-तत्र याः पूर्वमौदारिकं प्रति प्रभूतपरमाणुनिष्पन्नत्वात् सूक्ष्मपरिणामत्वाचाग्रहणप्रायोग्या वर्गणा उक्तास्ता एव चैक्रियं प्रति स्वल्पपरमाणनिष्पन्नत्वात् स्थूलपरिणामत्वाचाग्रहणप्रायोग्या वर्गणा वेदितव्याः । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाण्यधिकस्कन्धरूपा वर्गणा वेक्रियशरीरप्रायोग्या जघन्या वर्गणा, ततो द्विपरमाण्वधिकस्कन्धस्वरूपा द्वितीया वैक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा, एवमेकेकपरमाण्वधिकस्कन्धरूपा वैक्रियशरीरप्रायोग्या वर्गणास्तावद् वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति, जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः एवं अग्रहणप्रायोग्यवर्गणा अपि, केवलं जघन्यायाश्चोत्कृष्टा अनन्तगुणेति, गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः, एवं सर्वत्र । वैक्रियशरीरोत्कृष्टवर्गणापेक्षया च एकपरमाण्वधिकस्कन्धरूपा जवन्या अग्रहणप्रायोग्या वर्गणा, ततो द्विपरमावधिकस्कन्धरूपा द्वितीया अग्रहणग्रायोग्या, एवमेककपरमाण्यधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद् वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाच्च वैक्रियशरीरस्याग्रहणयोग्याः. आहारकस्याप्यल्पपरमाणनिष्पन्नत्वाद् बादरपरिणामोपेतत्वाचाग्रहणयोग्याः, एवमुत्तरत्रापि भावना कार्या । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाण्वधिकस्कन्धरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा, जघन्याद्या उत्कृष्टान्ताः एता अपि यथोत्तर मेकोत्तरपरमाणुवृद्धिमत्स्कन्धारब्धा अनन्ता भवन्ति । ततस्तदुपरि रूपाधिकस्कन्धेरारब्धा आहारक-तेजमयोरुक्तादेव हेतोरयोग्या जयन्या अग्रहणवर्गणा, जयन्याद्या उत्कृष्टान्ता एता अप्येकोत्तरपरमाणुवृद्धिमत्म्कन्धारब्धा अनन्ता एव मन्तव्याः । तदुपरि च रूपाधिकस्कन्धारब्धा तैजसशरीरनिष्पादनहेतुर्जघन्या तैजसशरीरवर्गणा, जघन्याया उत्कृष्टां यावद् एता अप्येकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता एव मन्तव्याः । तदुपरि चेकोत्तरपरमाण्वारब्धाः स्कन्धाः प्रागुक्तहेतोरेव तैजस-भाष योरयोग्यत्वादनन्ता अग्रहणवर्गणा वाच्याः । तदुपरि रूपाधिकस्कन्धेरारब्धा जघन्या भाषावर्गणा, यां भापार्थ जीवोऽवलम्बते, यां च गृहीत्वा चतुर्विधभापात्वेन