________________
७४-७६ ]
शतकनामा पञ्चमः कर्मग्रन्थः। एवमेकैकपरमाणुवृद्धया सङ्खथे यप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीयसमुदायरूपाः सङ्ख्याता वर्गणाः, असङ्ख्यातप्रदेशिकस्कन्धानामेकैकपरमाणुवृद्धानामसङ्ख्य या वर्गणाः, अनन्तपरमाणुनिष्पन्नस्कन्धानामनन्ता वर्गणाः, अनन्तानन्तप्रदेशिकानां स्कन्धानामनन्तानन्तवर्गणाः, सर्वा अप्येता अल्पपरमाणुमयत्वेन स्थूलपरिणामतया च स्वभावाद् जीवानां ग्रहे न समागच्छन्तीत्यग्रहणवर्गणा एताः सर्वा अप्युच्यन्ते । एताश्च सर्वाः समतिक्रम्य अभव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पन्नः स्कन्धेरारब्धा ग्रहणप्रायोग्या जघन्यौदारिकवर्गणा भवन्ति । तत आरभ्य एकैकपरमाणुवृद्धस्कन्धारब्धा औदारिकशरीरयोग्योत्कृष्टवर्गणां यावदेता अपि जघन्योत्कृष्टमध्यवर्तिन्योऽनन्ता वर्गणा भवन्ति, यतो जघन्यायाः सकाशाद् उत्कृष्टाया अनन्तभागाधिकत्वं वक्ष्यते, अनन्तभागश्चानन्तपरमाणुमयः, तत एकोत्तरप्रदेशोपचये सति मध्यवर्तिनीनामानन्त्यं न विरुध्यते । "तह अगहणंतरिय" ति 'तथा' तेन एकैकपरमाणूपचयरूपेण प्रकारेण 'अग्रहणान्तरिताः' अग्रहणवर्गणान्तरिता वर्गणा भवन्ति । एतदुक्तं भवति-- औदारिकशरीरोत्कृष्टवर्गणाभ्यः परत एकपरमाणुसमधिकस्कन्धरूपा वर्गणा औदारिकशरीरस्यैव जघन्याऽग्रहणप्रायोग्या, ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या, एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद् वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा भवति, जघन्यायाश्च वर्गणायाः सकाशाद् उत्कृष्टा वर्गणा अनन्तगुणा । गुणकारकश्चाऽभव्यानन्तगुण-सिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । एतासां चाग्रहणप्रायोग्यता औदारिक प्रति प्रभूतपरमाणुनिष्पन्नत्वात् सूक्ष्मपरिणामत्वाच्च वेदितव्येति ।। ७५ ।।
एमेव विउध्वाहारतेयभासाणुपाणमणकम्मे ।
सुहमा कमावगाही, ऊणणंगुलअसखसो ॥ ७६ ॥ __ 'एवमेव' वकारलोपः "यावत्तावज्जीवितवर्तमानावटप्रावारकदेवकुलैवमेवे वः" (सिद्ध० ८१-२७१ ) इति प्राकृतसूत्रेण, पूर्वोक्तौदारिकशरीरग्रहणप्रायोग्या-ऽग्रहणप्रायोग्यवर्गणान्यायेन वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः-कर्मविषया वर्गणा भवन्ति । तत्र विविधा-नानाप्रकारा क्रिया-विक्रिया, तथा च तद्धेतुभूतागाः क्रियाया वैक्रियसमुद्घातकरण-दण्डनिसर्गादिविविधत्वं प्रज्ञप्त्यादिषु निर्दिष्टमेव, मौदारिकाद्यपेक्षया वा विशिष्टा विलक्षणा वा क्रिया विक्रिया, तस्यां भवं बैंक्रियं शरीरम् । तथाऽपूर्थिग्रहणादिनिमित्तमुत्कृष्टतो हस्तप्रमाणं चतुर्दशपूर्वविदा आहियते-गृह्यते यत् तद् आहारकम् , कृत् "बहुलम्" (सिद्ध०५-१.२) इति कर्मणि णकः यथा पादहारक इत्यादौ यद्वा आहियन्ते-गृह्यन्ते सूक्ष्मा जीवादयः पदार्थाः केवलिसमीपेऽनेनेति निपातनादाहारकम् । तथाऽऽहारपाककारणभूतास्तेजोनिसर्गहेतवश्चोष्णाः पुद्गलास्तेज इत्युच्यन्ते, तेन तेजसा निवृत्तं तैजसं शरीरं सूक्ष्मादिलिङ्गगम्यम् । तथा भाषणं भाषा ।