SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा "सेसम्म दुह" त्ति शेषे भणितमूलप्रकृत्युत्तरप्रकृतिभ्योऽवशिष्टे आयुषि नारक- तिर्यङ्मनुष्य देवायुर्भेदाच्चतुर्विधे जघन्याऽजघन्य - उत्कृष्टा ऽनुत्कृष्टानुभागबन्धचतुष्केऽपि 'द्विधा' द्विप्रकारः सादि-अध्रुवबन्धलक्षणो बन्धो भवति । तथाहि - अनुभूयमानायुस्त्रिभागादौ प्रतिनियतकाल एवायुषो बध्यमानत्वात् सादित्वात् तदनुभागस्यापि जघन्यादिरूपस्य सादित्वम्, अन्तमुहूर्ताच परत आयुधोऽवश्यमुपरमत इति तस्याध्रुवत्वात् तदनुभागबन्धस्याप्यध्रुवत्वमिति । भाविता अनुभागबन्धमाश्रित्य मूलोत्तरप्रकृतीराश्रित्य भङ्गका इति । अनुभागबन्धः समाप्तः ॥ ७४ ॥ १४ I सम्प्रति प्रदेशबन्धस्यावसरः, ते च प्रदेशाः कर्म वर्गणास्कन्धानां सम्बन्धिनो जीवेन आत्मसात् क्रियन्ते, अतः कर्मवर्गणास्वरूपं वक्तव्यम् । तच्च प्राचीनवर्गणास्वरूपे निगदिते सति ज्ञातु शक्यम्, अतः प्रसङ्गतः शेषवर्गणास्वरूपमपि निगदनीयम् । शेषाः पुनरौदारिकाद्याः, ताथ ग्रहणप्रायोग्या - ऽग्रहणप्रायोग्यभेदाद् द्विधा, अत एकाणुक-द्वयणुकादिस्कन्धनिष्पन्ना अग्रहणवर्गणाद्याः कर्मवणावसाना वर्गणाः सजातीय द्रव्यसमुदायरूपा निरूपयन्नाह — सेसम्म दुहा ( अनुभागबन्धः ) इगदुगगुगाइ जां अभवतगुणियाणू | खंधा उरलोचियवग्गणा उ तह अगहणंतं रिया ॥ ७५ ॥ "सेसम्म दुह" त्ति पदं अनुभागबन्धाधिकारे बहुभिः प्रकारैर्व्याख्यातमित्यनुभागबन्धः समर्थितः । अरणुकशब्दः प्रत्येकं सम्बध्यते, ततः केवलोऽणुरेवाणुकः परमाणुरित्यर्थः, एकोऽको यत्र स काकः द्वौ अणुकौ यत्र स द्वयणुकः, एकाणुकद्वयणुकस्कन्धा आदियेषां त्र्यणुकादीनां त एकाणुकद्वयणुकादयः " मयूरव्यंसकेत्यादयः " (सिद्ध० ३-१-११६) इति मध्यमपदलोपी समासः, विभक्तिलोपश्च प्राकृतत्वात् । किमवसानाः ? इत्याह - " जा अभवणंत " इत्यादि । यावद् इत्यव्ययं पर्यवसानार्थे, अभव्येभ्योऽनन्तगुणिताः, उपलक्षणत्वात् सिद्धानामनन्तभागेऽणवो येषां तेऽभव्यानन्तगुणिताणवः । गमकत्वात् समासः । 'स्कन्धाः ' द्विपरमाण्वादिरूपाः । अयमर्थः - एकाणुक-द्वयणुकादयः स्कन्धा एकैकपरमाणुवृद्धया तावन्नेया यावदभव्येभ्योऽनन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पन्नास्ते स्कन्धा एवम्भूताः । किम् ? इत्याह- औदारिकोचितवर्गणा भवन्ति । तत्रोदाराः - स्फारतामात्र सारा वैक्रियादिशरीरपुद्गलापेक्षा स्थूला इत्यर्थः, तैरित्थम्भूतैः पुद्गलैनिष्पन्नमौदारिकशरीरम् तस्यौदारिकस्य निष्पत्तौ कर्तव्यायामुचिताः - योग्या औदारिकोचिताः, ताश्च ता वर्गणाश्च समानजातीयपुद्गलसमूहात्मिका औदारिको चितवर्गणा भवन्तीत्यक्षरार्थः । भावार्थस्त्वयम्-इह समस्तलोकाकाशप्रदेशेषु ये केचन एकाकिनः परमाणवो विद्यन्ते तत्समुदायः सजातीयत्वाद् एका वर्गणा, एवं द्विप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीयत्वाद् द्वितीया वर्गणा, त्रिप्रदेशिकानामनन्तानामपि स्कन्धानां सजातीयत्वात् तृतीया वर्गणा, 1
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy