________________
७४]
शतकनामा पञ्चमः कर्मग्रन्थः। तदेवं घातिकर्मणामजघन्योऽनुभागो भावितः । शेपत्रिके तु किम् ? इत्याह- सेसम्मि दुह" त्ति ‘शेषे' जघन्य-उत्कृष्टा-ऽनुत्कृष्टलक्षणेऽनुभागत्रिके 'द्विधा' द्विविकल्पः सादि-अध्रुवलक्षणो बन्धो भवति । तथाहि-प्रकृतकर्मचतुष्टयमध्ये मोहनीयस्य तावद् जघन्यानुभागः क्षपकानिवृत्तिवादरचरमसमयेऽनन्तरमेवोक्तः, शेषकर्मत्रयस्य तु क्षपकसूक्ष्मसम्परायचरमसमयेऽसावुक्तः । स चानादिकालेऽपि पर्यटता जीवेन पूर्व न बद्ध इति तत्प्रथमतया तत्रैव वध्यमानत्वात् सादिः, क्षीणमोहाद्यवस्था च प्राप्तस्य नियमान भविष्यतीति अध्रुवः । अनादिस्तु न भवति, पूर्व कदाचिदपि तद्बन्धासम्भवात् । ध्रुवोऽप्यसौ न भवति, अभव्यानां तद्वन्धस्य दूरोत्सारितत्वादिति । उत्कृष्टानुभागं तु प्रस्तुतकर्मणामशुभत्वात् सर्वसंक्लिष्टो मिथ्या दृष्टिः पर्याप्तसंज्ञिपञ्चेन्द्रिय एकं द्वौ वा समयौ यावद् बध्नाति, न परतः । स चानुत्कृष्टादवतीर्य बध्यत इति सादिः । जघन्यतः समयादुत्कृष्टतस्तु समयद्वयात् पुनरप्यनुत्कृष्टानुभागबन्धं गतस्योत्कृष्टोऽध्रुवो भवति, अनुत्कृष्टस्तु सादिः । पुनरपि जघन्यतोऽन्तमुहूर्तेनोत्कृष्टतस्त्वनन्तानन्ताभिरुत्सर्पिणीअवसर्पिणीभिरुत्कृष्टसंक्लेशं प्राप्य उत्कृष्टानुभागं बनतोऽनुत्कृष्टोऽध्रुवतां व्रजतीत्येवमुत्कृष्टानुत्कृष्टेषु जन्तवो भ्राम्यन्तीत्युभयत्र साद्यध्रुवतैव सम्भवति, नेतरविकल्पद्वयमिति ।
तथा 'गोत्रे' गोत्रकर्मणि 'द्विविधः' अजघन्योऽनुत्कृष्टश्च तद्बन्धः साद्यादिचतुर्विकल्पो भवति । तथा “सेसम्मि दुह" त्ति 'शेषे' भणितोद्धरिते जघन्योत्कृष्टभेदद्वये 'द्विधा' द्विविकल्पः साद्यध्रुवरूपो भवति । तत्रोत्कृष्टा-ऽनुत्कृष्टावनुभागवन्धौ यथाक्रमं द्वि-चतुर्विकल्पो यथा वेदनीय-नाम्नोस्तथा निर्विशेष भावनीयो । इदानीं जघन्या-ऽजघन्यौ भाव्येते-तत्र कश्चित् सप्तमनरकपृथिवीनारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वा मिथ्यात्वस्यान्तरकरणं करोति, तस्मिश्च कृते मिथ्यात्वस्य स्थितिद्वयं भवति-अन्तमुहूर्तप्रमाणाऽधस्तनी शेषा तूपरितनी, स्थापना[ ] तत्र चाधस्तनी स्थिति प्रतिसमयं वेदयन् यस्मादनन्तरसमये सम्यक्त्वं प्राप्स्यति, तत्र चरमसमये वर्तमानो नीचैर्गोत्रमाश्रित्य गोत्रकर्मणो जघन्यानुभागं बध्नाति । अन्यस्थानवर्तीह्य तावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रमजघन्यानुभागान्वितं बनीयादिति शेषपरिहारेण सप्तमपृथिवीनारकस्य ग्रहणम् । अयं हि यावत् किञ्चिदपि मिथ्यात्वमस्ति तावद् भवप्रत्ययेनैव तिर्यक्यायोग्यं नीचैर्गोत्रं च बध्नाति । तच्चान्यदा बहुमिथ्यात्वावस्थायामजघन्यरसं निवर्तयति, प्राप्तसम्यक्त्वोऽप्युच्चैर्गोत्रस्याजघन्यानुभागं बध्नातीति तद्वन्धकेष्वतिविशुद्धत्वाद् यथोक्त्तविशेषणविशिष्टस्य सम्यक्त्वाभिमुखस्य ग्रहणम् । अयं च जघन्यानुभागस्तत्प्रथमतया बध्यमानत्वात् सादिः, लब्धसम्यक्त्वस्तु स एवोच्चैर्गोत्रमाश्रित्य अजघन्यानुभागं रचयतीति जघन्योऽध्रुवः, अजघन्यानुभागस्तु सादिः, तच्च स्थानमप्राप्तपूर्वस्यानादिः, अभव्यानां ध्रुवः, भव्यानामध्रुव इति जघन्या ऽजघन्यानुभागौ गोत्रकर्मणो यथोक्तद्वि-चतुर्विकल्पाविति ।