________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
पुनरपि प्रतिपत्य यदाऽजघन्यानुभागं बध्नन्ति तदाऽयमजघन्यानुभागः सादिः, एतानि च स्थानान्यप्राप्तपूर्वाणामनादिः, ध्रुवोऽभव्यानामपर्यन्तत्वात्, अध्रुवो भव्यानां सपर्यन्तत्वादिति ।
९२
तदेवं त्रिचत्वारिंशत्प्रकृतीनामजघन्यानुभागो भावितः । शेषत्रिके तु किम् ? इत्याह"सेसम्म दुह" त्ति 'शेषे' भणितोद्धरिते जघन्य - उत्कृष्टा ऽनुत्कृष्टानुभाग त्रिके 'द्विधा' द्विप्रकारः सादि - अध्रुवलक्षणो बन्धो भवति । तत्राजघन्यानुभागभणनप्रसङ्गेन सर्वासां जघन्यानुभागोऽपि सूक्ष्मसम्परायादिगुणस्थानकेषु स्थानतो निर्दिष्टः । स च तत्र तत्र तत्प्रथमतया बध्यमानत्वात् सादिः क्षीणमोहाद्युपरितनावस्थासु चावश्यं न भवतीत्यध्रुवः । उत्कृष्ट त्वनुभागमेतासां त्रिचत्वारिंशतः प्रकृतीनां मिथ्यादृष्टिः सर्वोत्कृष्टसंक्लेशः पर्याप्तसंज्ञिपञ्चेन्द्रियो
नाति एक द्वौ वा समय यावत्, ततः परं पुनरनुत्कृष्टं बध्नाति, कालान्तरे च पुनरुत्कृष्टसंक्लेशमासाद्य उत्कृष्टानुभागं रचयतीत्येवमुत्कृष्टा ऽनुत्कृष्टानुभागेषु संसरतां जन्तूनामुभयत्रापि साद्यध्रुवतैव सम्भवति, नेतरद् विकल्पद्वितयमपि ।
1
तदेवं जघन्यादिषु चतुर्ष्वपि भेदेषु साद्यादिभङ्गकाचिन्तिताः । सम्प्रत्यध्रुवबन्धिनीन तेषु तानाह - "सेसम्मि दुह" त्ति 'शेषे' भणितोद्धरितोत्तरप्रकृतिवृन्देऽध्रुवबन्धिनीप्रकृतिकदम्बके त्रिसप्ततिसङ्खये उत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यथानुभागबन्धः । 'द्विधा' द्विप्रकारः सादिरध्रुव एव भवति । प्रकृतय एव ता अध्रुववन्धित्वात् साद्यधुवाः, ततस्तत्सत्तानुविधायी जघन्यादिरूपः तदनुभागोऽपि यथोक्त एव भवति, न त्वनादिधु वो वेति । तथा 'घातिनां' घातिकर्मणां ज्ञानावरण-दर्शनावरण-मोहनीयाऽन्तरायलक्षणानां चतुर्णामजघन्योऽनुभागः साद्यादिचतुर्विकल्पो भवति । तथाहि - अशुभप्रकृतीनां सर्वजघन्यं शुभप्रकृतीनां तु सर्वोत्कृष्टमनुभागं यः कश्चित् तद्बन्धकेषु सर्वविशुद्धः स एव निर्वर्तयति । तत्र ज्ञानावरण-दर्शनावरणा-ऽन्तराय लक्षणकर्मत्रयस्याशुभत्वात् क्षपकसूक्ष्मसम्परायश्वरमसमये जघन्यरसं निर्वर्तयति, तद्द्वन्धकेष्वयमेवातिविशुद्ध इति कृत्वा | मोहनीयस्य त्वनिवृत्तिवादरमेव यावद् बन्धो भवतीति स एव क्षपकचरमसमयेऽस्य जघन्यरसमुपकल्पयति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । इतः स्थानादन्यत्र सर्वत्रोपशुमश्रेणावपि प्रकृतकर्मचतुष्टयस्यानुभागोऽजघन्य एव बध्यते, उपशमकानामपि क्षपकेभ्यो विशुद्धयाऽनन्तगुणहीनत्वात् । ततश्चोपशान्तमोहः सूक्ष्मसम्परायच यथानिर्दिष्टप्रकृतकर्मचतुष्टयसम्बन्धिनोऽजघन्यानुभागस्याबन्धको भूत्वा प्रतिपत्य यदा पुनस्तं बध्नाति तदाऽयमजघन्यानुभागः सादिर्भवति, बन्धव्यवच्छेदे कृते तत्प्रथमतया बध्यमानत्वात् । यैस्तूपशान्तमोहाद्यवस्था नाद्यापि प्राप्ता तेषामनादिकालादारभ्याविच्छिन्नं बध्यमानत्वाद् अनादि, ध्रुवोऽभव्यानाम्, अध्रुवो भव्यानाम् ।