________________
६१
७४ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
>
ह्यं तत्कर्मद्वयग्रहणगृहीतानां सात यशः कीर्त्यादिलक्षणशुभप्रकृतीनामुत्कृष्टस्वरूपं शुभरसं कुर्यात् सर्वमंक्लिष्टस्त्वसात-नरकगत्यादिप्रकृतीनामुत्कृष्टस्वरूपमशु भरसं कुर्यादिति मध्यम परिणामग्रहणम् । अयं च जघन्यानुभागोऽजघन्याद् अवतीर्य बध्यत इति सादिः, पुनर्जघन्यतः समयादुत्कृष्टतस्तु समयचतुष्टयादजघन्यानुभागं बध्नतो जघन्योऽनुवोऽजघन्यस्तु सादिः, पुनस्तत्रैव भवे भवान्तरे वा जघन्यं नतोऽजघन्योऽध्रुव इत्येवं जघन्या - जघन्यानुभागबन्धयोः परिभ्रमतामसुमतामुभयत्र साद्यध्रुवतैव भवतीति ।
तथा "सेसधुवबंधि" त्ति शेषध्रुवबन्धिनीनां ज्ञानावरणपञ्चक-दर्शनावरणनवक मिथ्यास्व-कषायपोडशक-भय जुगुप्सा-प्रशस्तवर्णादिचतुष्का-ऽन्तरायपञ्चक-उपघातलक्षणानां त्रिच - त्वारिंशतः प्रकृतीनामजवन्योऽनुभागः साद्यादिचतुर्विकल्पो भवति । तथाहि -मति श्रुताऽवधिमनःपर्याय - केवलावरणपञ्चक - चक्षुः - अचक्षुः - अवधि - केवलदर्शनावरणचतुष्का-ऽन्तरायपञ्चकलक्षणानां चतुर्दशत्रकृतीनां तावद् अशुभत्वात् क्षपकसूक्ष्मसम्परायश्वरमसमये जघन्यानुभागं बध्नाति, तद्वन्धकेष्वयमेव सर्वोत्कृष्टविशुद्धिमानिति कृत्वा । ततोऽन्यः सर्वोऽपि उपशमश्रेणावप्यजघन्यः प्राप्यते स चोपशान्तावस्थायां सर्वथा न भवति, तस्मादितः प्रतिपत्य बध्यमानः सादितां भजते, उपशान्तावस्थां चाप्राप्त पूर्वाणामनादिः, ध्रुवोऽभव्यानाम्, अध्रुवो भव्यानामिति । संज्वलनचतुष्कस्य त्वशुभत्वात् क्षपकानिवृत्तिवादरो यथास्वबन्धव्यवच्छेदसमये एकैकं समयं जघन्यानुभागं बध्नाति । ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चोपशमश्रेणौ बन्धव्यवच्छेदे कृते प्रतिपत्य पुनस्तमेव बध्नतः : सादित्यम्, उपशान्तावस्थां चाप्राप्तपूर्वस्यानादित्यम्, ध्रुवोऽभव्यानाम्, अध्रुवो भव्यानामिति । निद्रा - प्रचला - प्रशस्तवर्णादिचतुष्क- उपघात -भय- जुगुप्सालक्षणानां नवप्रकृतीनां क्षपकापूर्वकरणो यथास्ववन्धव्यवच्छेदकाले एकैकं समयं जघन्यमनुभागं बध्नाति । ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चोपशमश्रेणौ बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनस्तमेव वध्नतः सादित्वम्, बन्धाभावस्थानं चाप्राप्तपूर्वस्यानादिः, धुत्रोऽभव्यानाम् अध्रुवो भव्यानामिति । चतुर्णां प्रत्याख्यानावरणानां देशविरतः संयमप्रतिपत्त्यभिमुखोऽऽत्यन्तविशुद्धः स्वगुणस्थानस्य चरमसमये वर्तमानो जघन्यमनुभागं बध्नाति । तस्मात् पुनः स्थानात् पूर्वं सर्वोप्यजघन्यः । चतुर्णामप्रत्याख्यानावरणानामविरतसम्यग्दृष्टिः क्षायिकसम्यक्त्वं संयमं च युगपत् प्रतिपित्सुरत्यन्तविशुद्धः स्वगुणस्थान चरमसमये वर्तमानो जवन्यमनुभागं बध्नातीति । ततोऽन्यः सर्वोप्यजघन्यः । स्त्यानद्वित्रिक मिथ्यात्वाऽनन्तानुबन्धि चतुष्टयलक्षणानामष्टानां प्रकृतीनां मिथ्यादृष्टिः सम्यक्त्वं संयमं च युगपत् प्रतिपित्सुः सर्वविशुद्धो मिथ्यात्ववेदनस्य चरमसमये वर्तमानो जघन्यमनुभागं बध्नाति, एतस्माच्चान्यत्र सर्वोऽप्यजघन्यः । एते हि देशविरतादयस्तत्तद्यन्ध केप्वतिविशुद्धत्वाद् यथानिर्दिष्टकर्मणां जघन्यमनु (ग्रन्थाग्रम् - २५०० ) भागं बध्नन्ति । ततश्च संयमादीन् गुणान् प्राप्य