________________
६०
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
यस्माद् अन्योऽधिको रसो न बध्यते स उत्कृष्टः, तत एकरसांशहानिमादौ कृत्वा यावत् सर्वजघन्यस्तावत् सर्वोऽप्यनुत्कृष्ट इति; अनेन वा प्रकारद्वयेनानन्ता अपि रसविशेषाः संगृहीताः । तत एतासां प्रस्तुताष्टप्रकृतीनामुत्कृष्टमनुभागबन्धं क्षपकापूर्वकरणो देवगतिप्रायोग्याणां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदसमये करोति । एता हि शुभप्रकृतयः, अत एतदुत्कृष्टानुभागं सर्वविशुद्ध एव रचयति, तनुबन्धकेषु त्वयमेव सर्वविशुद्धः । एतस्मात् पुनरन्यत्रोपशमश्रेणावप्यनुत्कृष्टोऽनुभागबन्धो लभ्यते, स चोपशान्तमोहाद्यवस्थायां सर्वथा न भवतीति ततः प्रतिपतितैर्जन्तुभिर्वध्यमानः सादिः तच्च स्थानमप्राप्तपूर्वाणां सदाबध्यमानत्वाद् अनादिः, ध्रुवोऽभव्यानाम्, अध्रुवो भव्यानामिति । प्रतिपादितस्तैजसचतुष्क-वर्णचतुष्कलक्षण प्रकृत्यष्टकस्यानुत्कृष्टो बन्धः । शेषन्धत्रिकस्य तु का वार्ता ? इत्याह- " से सम्मि दुह" त्ति 'शेषे' भणितोद्धरिते उत्कृष्टजघन्या- जघन्यानुभात्रि के द्विप्रकारः - सादि - अध्रुव लक्षणो बन्धो भवतीत्यर्थः । तथाहि - अस्य प्रकृत्यष्टकस्योत्कृष्टानुभागबन्धोऽनन्तरमेव क्षपका पूर्वकरणे प्रोक्तः, स च तत्प्रथमतया बध्यमानत्वात् सादिः, एकं च समयं भूत्वाऽग्रेऽवश्यं न भवतीत्यध्रुवः । जघन्यानुभागं त्वेतासां शुभप्रकृतिस्वात् सर्वोत्कृष्टसंक्लेशे वर्तमानो मिथ्यादृष्टिः पर्याप्तः संज्ञिपञ्चेन्द्रियो बध्नाति । पुनरपि जघन्यतः समयादुत्कृष्टतः समयद्वयादवश्यं स एवाजघन्यं बध्नाति, पुनः कालान्तरे 'स एवोत्कृष्टसंक्लेशं प्राप्य जघन्यं बध्नातीत्येवं जघन्या - ऽजघन्येषु परावर्तमानानां जन्तूनामुभयत्र साद्यध्रुवतैवेति ।
तथा "वेयणियनामणुको सु" त्ति वेदनीय नाम्नोरनुत्कृष्टोऽनुभागबन्धः साद्यादिचतुर्विकल्पोऽपि भवति । तथाहि-अनयोः कर्मणोः सात यशः कीर्तिलक्षणं तदन्तर्गतं प्रकृतिद्वयमाश्रित्य सर्वोत्कृष्टो रसः क्षपक-सूक्ष्मस पराय चरमसमये प्राप्यते, ततोऽन्यः सर्वोप्युपशमश्रेणावपि अनुत्कृष्टोऽनुभागबन्धो लभ्यते, ततश्चोपशान्तमोहाद्यवस्थायां सर्वथा न भवतीति, ततः प्रतिपतितैर्जन्तुभिर्वध्यमानोऽनुभागः सादिः, उपशान्तमोहाद्यवस्थायां त्वप्राप्तपूर्वस्यानादिः, अनादिकालाद् बध्यमानत्वाद्, ध्रुवोऽभव्यानामपर्यन्तत्वात्, अध्रुवो भव्यानां सपर्यन्तत्वादिति । भावितो वेदनीयनाम्नोरनुत्कृष्टो बन्धः । शेषे तु का वार्ता ? इत्याह - " से सम्मि दुह" ति एतत् पदं पूर्वसम्बन्धितमप्यावृत्त्याऽत्रापि सम्बध्यते । ततः शेषे - भणितोद्धरिते उत्कृष्ट - जघन्या -ऽजघन्यलक्षणानुभाग के द्विप्रकारः साद्यध्रुवलक्षणो बन्धो भवति । तथाहि - उत्कृष्टमनुभागबन्धं वेदनीयनाम्नोरनन्तरमेव प्रस्तुत कर्मबन्धकेष्वतिविशुद्धत्वात् क्षपकसूक्ष्मसम्परायो बध्नातीत्युक्तम् । स च तत्प्रथमतया बध्यमानत्वात् सादिः, क्षीणमोहावस्थायां तु नियमाद् न भविष्यतीत्यध्रुवः । जघन्यानुभागं त्वनयोः कर्मणोः सम्यग्दृष्टिर्मिथ्यादृष्टिर्वा मध्यमपरिणामो बध्नाति, सर्वविशुद्धो
१० छा० सर्वोत्कृष्टसं
• 11