________________
७२-७३ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
ष्टि सम्यग्मिथ्यादृष्टि-सास्वादन - मिथ्यादृष्टयोऽपि परानृत्य परावृत्य साता-साते बध्नन्ति । तत्र मिथ्यादृष्टिः साता-साते परावृत्य तावद् बध्नाति यावत् सातस्य पञ्चदशसागरोपमकोटी कोटीलक्षणा ज्येष्ठा स्थितिः, ततः परतोऽपि संक्लिष्टः संक्लिष्टतरः संक्लिष्टतमोऽसातमेव केवलं तावद् बाति यावत् त्रिंशत्सागरोपमकोटीकोटयः प्रमत्तादपि परतोऽप्रमत्तादयो विशुद्धा विशुद्धतराः सातमेव केवलं बध्नन्ति यावत् सूक्ष्मसम्पराये द्वादशमुहूर्ताः । तदेवं व्यवस्थिते सातस्य समयोनपञ्चदशसागरोपमकोटीकोटीलक्षणायाः स्थितेरारभ्य असातेन सह परावृत्य परावृत्य बनतो जघन्यानुभागबन्धोचितः परावर्तमानमध्यमपरिणामस्तावद् लभ्यते यावत् प्रसत्तगुणस्थानकेऽन्तः सागरोपमकोटाकोटीलक्षणा सर्वजघन्याऽसातस्थितिः । एतेषु हि सम्यग्दृष्टि-मिथ्यादृष्टियोग्येषु स्थितिस्थानेषु प्रकृतेः प्रकृत्यन्तरसहकमे मन्दः परिणामो जघन्यानुभागबन्धयोग्यो लभ्यते, नान्यत्र । तथाहि - येऽप्रमत्तादयः सातमेव केवलं वध्यन्ति ते विशुद्धत्वात् तस्य प्रभूतमनुभागमुपकल्पयन्ति, योऽपि मिध्यादृष्टिः सातस्योत्कृष्टां स्थितिमतिक्रान्तोऽसातमेव केवलमुपरचयति सोऽप्यतिसंक्लिष्टत्वात् तस्य प्रभूतरसमभिनिर्वर्तयति, सागरोपमसप्तभागत्रयादिरूपवेदनीय स्थितिबन्धकेष्वे केन्द्रियादिष्वपि जघन्यानुभागबन्धो न सम्भवति, तथाविधाध्यवसायाभावात् तस्माद् यथोक्तस्थितिबन्ध एव जघन्यानुभागबन्धसम्भवः, तथाविधपरिणाम सद्भावादिति । अस्थिरा ऽशुभा-ऽयशःकीर्तीनां विंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिरुक्ता । स्थिर-शुभयशःकीर्तीनां तु दशमागरोपमकोटी कोटयः । तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽस्थिरा ऽशुभायशःकीर्तीनां सम्यग्दृष्टियोग्यस्थितिषु सर्वजघन्यामन्तः सागरोपमकोटीकोटीलक्षणां स्थिति नाति । ततोऽन्तमुहूर्ताद् विशुद्धः पुनरपि स्थिरादिकाः प्रतिपक्षभूता बघ्नाति, ततः पुनरप्यस्थिरादिका इति । एवं देशविरता ऽविरत मिश्र साध्यादन- मिथ्यादृष्टयोऽपि परावृत्य परावृत्याऽस्थिरा शुभा-ऽयशःकीर्ति-स्थिर शुभ-यशः कीर्तीर्वध्नन्ति । तत्र च मिथ्यादृष्टिः स्थिर-शुभ यशः कीर्तीरस्थिराऽशुभा-ऽयशःकीर्तीश्च परावृत्य तावद् बध्नाति यावद् मिथ्यादृष्टिगुणस्थाने स्थिरादीनामुत्कृष्टा स्थितिः एतेषु च सम्यग्दृष्टि-मिथ्यादृष्टियोग्येषु स्थितिस्थानेषु जयन्यानुभागवन्धो लभ्यते, नान्यत्र । दशसागरोपमकोटीकोटी परतो ह्यस्थिरादय एवाशुभाः प्रकृतयो बहुरसा बध्यन्ते । अप्रमत्तादयस्तु विशुद्धाः स्थिरादिकाः शुभप्रकृतीरेव बहुरसा निर्वर्तयन्तीति नान्यत्र जघन्यानुभाग आसां लभ्यत इति शेषः । भावना तु सातवद् बोद्धव्येति ||७२ ||
1
८७
तसवन्नतेयच उमणुखगइ दुगपणिदिसास पर घुच्चं
1
संघयणा गिइन पुथी सुभगियरति भिच्छ चउग्रहगा || ७३|| चतुःशब्दस्य प्रत्येकं सम्बन्धात् सचतुष्कं त्रस बादर-पर्याप्त प्रत्येकाख्यं, वर्ण चतुष्कं - वर्ण- गन्ध-रस-स्पर्शाभिधं तैजसचतुष्कं - तैजस-कार्मणाऽगुरुलघु-निर्माणलक्षणं, द्विकशब्दस्य