________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा:
तथा 'निरय विणिगथावरयं" ति 'निरयान्' नारकान् 'विना' वर्जयित्वा शेषगतित्र यवर्तिनो जीवr: "ग" त्ति एकेन्द्रियजातिः स्थावरनाम इत्येतत्प्रकृतिद्वयस्य सामान्योक्तावपि " व्याख्यानतो विशेषप्रतिपत्तिः” इति न्यायात् परावर्तमानमध्यमपरिणामा जघन्यानुभागं बध्नन्ति । इदं हि प्रकृतिद्वयमशुभम् तत्रातिसंक्लिष्टो जन्तुरनयोरुत्कृष्टानुभागं बध्नाति, अतिविशुद्धस्त्विदमुल्लङ्घय उत्कृष्टानुभागे पञ्चेन्द्रियजाति-वसनाम्नी बध्नातीत्यालोच्य मध्यमपरिणामग्रहणम् । अयं च मध्यमपरिणामन्निन्तमुहूर्ते एकेन्द्रियजाति-स्थावर नाम्नी बद्धवा पुनद्वितीयेऽप्यन्तमुहूर्ते ते एव बध्नाति तदापि भवति, केवलं तदाऽवस्थितपरिणामे तथाविधा विशुद्धिर्न लभ्यते इति मध्यमपरिणामस्यापि परावर्तमानताविशेषणम् । इदमुक्तं भवति - यदै केन्द्रियजाति-स्थावरे बद्धा पञ्चेन्द्रियजातित्रसनाम्नी बध्नाति ते अपि बद्ध्वा पुनरेकेन्द्रियजाति-स्थावरे बध्नाति तदेव परावृत्य परावृत्य वध्नन् परावर्तमानमध्यमपरिणामः तत्प्रायोग्यविशुद्धः प्रस्तुतप्रकृतिद्वयस्य जघन्यानुभागं बध्नाति । भवत्वेवम्, तत्रापि नारकवर्जनं किमर्थम् ? इति चेद् उच्यते - नारकाणां स्वभावादेव प्रस्तुत प्रकृतिद्वयबन्धकत्वासम्भवादिति ।
८६
तथा "आमुहमायव" त्ति सुधर्मा नाम सभा विद्यते यत्र स सौधर्मः, "ज्योत्स्नादिभ्योऽण" (सिद्ध० ७-२-३४) इत्यण्प्रत्ययः, इह च सौधर्मग्रहणेन समश्रेणिव्यवस्थितत्वाद् ईशानोऽपि गृह्यते, ततश्च भवनपत्यादय ईशानपर्यन्ता देवास्तद्बन्धकेषु सर्व संक्लिष्टा एकेन्द्रियप्रायोग्यं बध्नन्त आतपनाम जघन्यानुभागं बध्नन्ति । अस्य हि शुभप्रकृतित्वात् सर्वसंक्लिष्ट एवं जघन्यानुभागं बध्नाति तन्धकेषु चैत एव सर्वसंक्लिष्टा लभ्यन्ते, तिर्यङ- मनुष्या ह्यं तावति संक्लेशे वर्तमाना नारकादिप्रायोग्यं रचयेयुः, नारकाः सनत्कुमारादिदेवाश्च भवप्रत्ययादेव तद् न बध्नन्तीति शेषपरिहारेण यथोक्तदेवानामेव ग्रहणम् ।
तथा सातावेदनीयं स्थिरनाम शुभनाम यशः कीर्तिनामेत्येताश्चतस्रः प्रकृती: 'सेतराः' सप्रतिपक्षा असातावेदनीया - स्थिरा ऽशुभा ऽयशः कीर्ति नामसहिताः सर्वा अष्टौ प्रकृती: “सम्मो व” त्ति सम्यग्दृष्टिः, वाशब्दात् मिध्यादृष्टिर्वा, सामान्योक्तावपि परावर्तमानमध्यमपरिणामो जघन्यानुभागाः करोति । कथम् इति चेद् उच्यते - इह पूर्व सातस्य पञ्चदशसागरोपमकोटीकोटय उत्कृष्ट स्थितिरभिहिता, असातस्य तु त्रिंशत्सागरोपमकोटी कोटयः, तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टियोग्य स्थितिषु सर्वजघन्यामन्तः सागरोपमकोटीकोटीप्रमाणां स्थिति बध्नाति ततोऽन्तमुहूर्तात् परावृत्य सातं बध्नाति, पुनरप्यसातमिति । एवं देशविरता ऽविरतसम्य
१ ० १-म० तथापि ।।