________________
७१-७२
शतकनामा पश्वमः कर्मग्रन्थः ।
८५
तनाः सनत्कुमारादय एव देवा जघन्यरसं विदधति नेशानान्ताः, ते हि सर्वोत्कृष्टसंक्लेशे वर्तमाना एकेन्द्रियप्रायोग्यमेव बध्नन्ति, एकेन्द्रियाणां चाङ्गोपाङ्ग न भवति, अत ईशानान्तदेवानां जघन्यरसाङ्गोपाङ्गनामबन्धासम्भवेन तज्जघन्यरसबन्धकत्वासम्भवः । भवत्वेवम्, किन्तु तिर्यङ्मनुष्याः कस्मादिदं प्रकृतित्रयं जघन्यरसं न कुर्वन्ति ? इति अत्रोच्यते - एतत् प्रकृतित्रयं तिर्यग्गतिप्रायोग्यबन्धसहचरितं जघन्यरसं बध्यते, तिर्यङ् - मनुष्यास्त्वेतावति संक्लेशे वर्तमाना नरकगतिप्रायोग्यमेव रचयेयुरिति तेषामिहाग्रहणमिति ॥ ७१ ॥
तिरिदुगनिअ तमतमा, जिणमविश्य निरय विणिगथावरयं । आमुहमायव सम्मो, व सायधिरसुभजसा सिअरा ||७२ || तथा तिर्यग्विकं तिर्यग्गति-तियंगानुपूर्वीरूपं नीच - नीचैर्गोत्रम् इत्येतासां तिसृणां प्रकृतीनां तमस्तमा - सप्तमनरंक पृथिवी तस्यामुत्पन्ना नारका अपि तमस्तमाः, यद्वा तमस्तमो विद्यते येषां तमस्तमाः “ अभ्रादिभ्यः " ( सिद्ध० ७-२-४६ ) इत्यप्रत्ययः, सप्तमनरकपृथिवीनारका इत्यर्थः, जघन्यानुभागं कुर्वन्ति । तथाहि - कश्चित् सप्तमपृथिवीनारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणस्य चरमसमये मिथ्यात्वस्य चरमपुद्गलान् वेदयन् प्रकृतित्रयस्य जघन्यानुभागं बध्नाति, अस्य हि प्रकृतित्रयस्याशुभत्वात् सर्वविशुद्धो जघन्यानुभागं करोति, तद्बन्धकेषु त्वयमेव सर्वविशुद्ध इति सम्यक्त्वाभिमुखादिविशेषणोपादानम् । अन्यस्थानवर्ती त्वेतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रं मनुष्यद्विकादियुक्तं बध्नीयादिति सप्तमपृथिवीनारकस्यैव ग्रहणम् । अस्यां हि यावत् किश्चिदपि मिथ्यात्वमस्ति तावद् भवप्रत्ययादेव नीचैर्गोत्रसहचरितस्तिर्यग्गतिप्रायोग्य एव बन्धो भवतीति । तथा "जिणं" ति जिननाम तीर्थकर नामकर्मेत्यर्थः “ अविरय" त्ति अविरतसम्यग्दृष्टिः सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायाद् अविरतसम्यग्दृष्टिः नरके वद्धायुष्को नरकोत्पत्त्यभिमुखोऽनन्तरमेव मिथ्यात्वं प्रतिपित्सुर्मनुष्य स्तीर्थकरनाम्नो जघन्यानुभागं बध्नाति तद्बन्धकेष्वयमेव सर्वसंक्लिष्ट इति कृत्वा । इयमत्र भावना - तीर्थकरनाम्नो ह्यविरतसम्यग्दृष्ट्यादयोऽपूर्वकरण ावसाना अनुभागबन्धका भवन्ति, किन्तु जघन्यानुभागः शुभप्रकृतीनी संक्लेशेन बध्यते, स च तीर्थकरनामबन्धकेष्वविरतस्यैव यथोक्तविशेषणविशिष्टस्य लभ्यत इति शेपव्युदासेनास्यैवोपादानमिति । तत्र तिर्यञ्चस्तीर्थकर नाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाथ भवप्रत्ययेनैव न भवन्तीति मनुष्यग्रहणम् । बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनरकायुर्नरकं न व्रजतीति पूर्वं नरके बद्धायुष्कस्य ग्रहणम् | क्षायिकसम्यग्दृष्टिश्च श्रेणिकादिवत् ससम्यक्त्वोऽपि कश्चिद् नरकं प्रयाति, किन्तु तस्य विशुद्धत्वेन जघन्यानुभागाबन्धकत्वात् तस्यैव चेह प्रकृतत्वाद् नासौ । अतस्तीर्थकर नामकर्म जघन्यस्थितिबन्धकत्वाद् मिथ्यात्वाभिमुखस्यैव ग्रहणमिति ।